SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir M . गोभिलीयरह्मकर्मप्रकाशिका । सकृदेव कृत्वा देशकाला सङ्कीयास्य कुमारस्य गर्भाम्बुपानसञ्जातसकलदोषबीजगर्भसमुद्भवपापनिबर्हणाय जातकमीनप्राशनचन्द्रदर्शननामकरणजन्मतिथियागचूडाकरणकर्मभिरिम कमारं संस्करिष्यामीति सङ्कल्य चूडाकर्मणि विहितमग्निं विधिवत्प्रतिष्ठाप्याज्यतन्त्रेण व्याहृतिचयहोमान्तं कुर्यात् । ततो जातकर्मणो मुख्यकालातिपत्तिप्रायश्चित्तार्थं सर्वप्रायश्चित्तं होष्यामीति सङ्कल्याज्येन व्याहृतिचनुष्टयं हुत्वोक्तविधिना जातकर्म कर्यात । एवमन्नप्राशनकर्मणो मुख्यकालातिपत्तीत्याधुक्ला व्याहृतिचतुष्टयं हुत्वाऽन्नप्राशनमुक्तविधिना कुर्यात् । तथैव चन्द्रदर्शनमुख्यकालातिपन्नप्रायश्चित्तं पूर्ववडत्वोक्तविधिना चन्द्रमुपस्थाय पत्रिंशदुदकाञ्जलीन् दद्यात् । ततो नामकरणमुख्यकालातिपत्तिप्रायश्चित्तं हुत्वा नामकरणाङ्गभूतहोमान्विधायोतविधिना नामधेयकरणं कर्यात । तथैव जन्मतिथियागमुख्यकालातिपन्नप्रायश्चित्तं पूर्ववद्धत्वोक्तविधिना जन्मतिथिदेवताहोमान् कृत्वा ततो चूडाकर्माङ्ग व्याहृतिचतु. ष्टयं हुत्वोक्तविधिना चूडाकरणं विधायोपरिष्टात्तन्त्र समापयेत् । उपनयनेन सह चेत् प्रायश्चित्तपूर्वकं चूडाकर्म कृत्वोपनयनाङ्गव्याहृतिचतुष्टयहोमादिकं सर्व कुर्यात् ॥ ____ अथोपनयनप्रयोगः ॥ गर्भप्रभृत्यष्टमे वर्षे ब्राह्मणस्योपनयनम्, गर्भकादशे क्षत्रियस्य, गीहादशे वैश्यस्य । श्रापद्याषाडशाबाह्मणस्य, श्राहाविंशात्क्षत्रियस्य, आचतुर्विंशाद्देश्यस्य । "अत्राम-दायामिति” केचित्, “अभिविधावित्यन्ये । उक्त - - For Private And Personal For Private And Personal
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy