________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya
Acharya Shri Kailashsagarsuri Gyanmandir
मोभिलीयगृह्मकर्मप्रकाशिका । आनडगोमये स्थापयति । अथ दर्भपिञ्जलीनिरस्याप उपस्पृशति । एवमेव पश्चाभागे उत्तरभागे च केशार्दीकरणप्रभृति छिन्नकेशदर्भपिञ्जलीस्थापनान्तं कर्म कर्त्तव्यम् ॥ अथ पिता इस्तदयेन कुमारस्य मूढीनं परिगृह्य च्यायुषं जमदग्नेरितिमन्त्र जपेत् । अस्य मन्त्रस्य प्रजापतिषिर्यजुः प्रजापतिर्देवता जपे विनियोगः । च्यायुषं जमदग्नेः कश्यपस्य च्यायुषमगस्त्यस्य च्यायुषं यद्देवानां च्यायुषं तत्ते अस्तु च्यायुषम् ॥ अथाग्नेरुत्तरतो बहिर्गत्वा कुमारस्य वपनं गोचकुलानुगुण्येन शिखास्थापनच्च कारयेत् । काथुमराणायनयोस्समावर्तनात्पूर्व सशिखमेव वपनं कार्य्यम् । तथा वक्ष्यमाणसमावर्तनप्रयोगे सूत्रकृटुक्त्या ज्ञापयिष्यमाणत्वात् । ततः पिता व्याहृतिचतुष्टयं हुत्वा तन्त्र शेषं समापयेत् । गौर्दक्षिणा। गोमये सर्वान् केशान् संस्थाप्यारण्यं गत्वा निखनन्ति । व्रीहियवादिक्षेचे वा क्षिपेयुभत्याः । स्त्रीणामप्यमन्त्रक सावित्रजपप्रभृति गोमयनिधानान्तं कर्म, होमो, नान्दीमुखश्राइच मन्त्रेण । एवं जातकीदा प्रधानकामन्त्र कमन्यत्सवं समन्त्र कम । ब्राह्मणभोजनादिकं यथाशक्ति कार्य । कसरं व्रीह्यादिपाचाणि नापिताय दद्यात ॥ इति चूडाकरणप्रयोगः ॥
यदि कुमारस्य स्वस्वकाले जातकीदीन्यननुष्ठितानि तईपनयनात्पूर्व चूडाकर्मणा सह प्रायश्चित्तपूर्वकमनुष्ठेयानि । यथा जातकर्मादिचूडाकान्तं कर्मगणप्रारम्भाङ्गं नान्दीश्राद्धं
For Private And Personal