________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयगृहकर्मप्रकाशिका । करिष्यमाणनामकरणकाङ्गन्नान्दीमुखश्राई करिष्ये । इति संकल्य तत्कुर्यात् ॥ अथ प्रातब्राह्मणाननुज्ञाप्य वदक्षिणभागे उपविष्टया पत्न्या सशिरस्कालावितेन कुमारेण च सह पवित्रपाणि: प्राणानायम्य देशकाला संकीयास्य मम कुमारस्य बैजिकगाभिकदोषनिवृत्तये, व्यवहारसिद्धये च, नामधेयकरणं करिष्ये। इति सङ्कल्य स्वपुरतो गोमयेनोपलिप्ते स्थण्डिले विधिवत्यार्थिवनामानं लौकिकाग्निं संस्थापयेत्। श्राज्यतन्त्रण ब्रह्मोपवेशनाद्याज्यसंस्कारान्तं कुर्यात् । ततो माता मुखवर्जमहतेन वाससा कुमारमाच्छाद्य दक्षिणत उदञ्चमुदक्किरसं पित्रे प्रदाय पत्युः पृष्ठत उत्तरतो गत्वोदगग्रेषु दर्भेषु प्रामुखी पत्न्यपविशति । ततः पतिस्वसंमार्गादिव्याहृतित्रयान्तं हुत्वा मनसा प्रजापतये स्वाहेति जुहोति। ततः कुमारजन्मतिथये, जन्मतिथिदेवतायै, कुमारजन्मनक्षत्राय, जन्मनक्षत्रदेवतायै चैकैकाज्याहुतिं जुहोति । चतुर्थ्यन्ततिथिनक्षत्रदेवतानामान्ते स्वाहेति पदं संयोज्य होमाः कर्त्तव्याः । सुखावबोधनार्थः प्रयोगः प्रदर्श्यते॥ प्रतिपदेस्वाहा। द्वितीयायै स्वाहा। तृतीयायै स्वाहा । चतुर्थ्यः । पञ्चम्यैः । षौ । सप्तम्य० । अष्टम्यैः । नवम्यै० । दशम्यै० । एकादश्यैः । द्वादश्यै० । त्रयोदश्यैः । चतुर्दश्यैः । पौर्णमास्यैः । अमावास्याय० ॥ इति तिथिहोमः ॥ प्रतिपदादिदेवताहोमप्रयोग उच्यते ॥ ब्रह्मणे स्वाहा। त्वष्ट्रे । विष्णवे । यमाय० । सेामाय० । कुमाराय० । मुनिभ्यः । वसभ्यः । पिशाचेभ्यः । धीय० । रुद्राय० । रक्ये ।
For Private And Personal