SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir SE गोभिलीय कर्मप्रकाशिका । पुत्रो जनिच्या अधि || ३ || यथादत्तं कुमारं माचे प्रदायो - पविश्य वामदेव्यं गायेत् । ऊर्द्ध दादशसु शुक्लपक्षेषु तृतीय स्वस्तमिते लौचित्यनिवृत्तौ पितोदकेनाज्ञ्जलिमापू चन्द्राभिमुखेा यददश्चन्द्रमसीतिमन्त्रेण चन्द्रं प्रत्युत्सृज्य तूष्णीमुदकाज्ञ्जलिद्दयमुत्सृजेत् । यददञ्चन्द्रमसीति मन्त्रस्य प्रजापतिर्ऋषिरनुष्टुप्छन्दश्चन्द्रो देवतोदकाञ्ज ल्युत्सज्जने विनियोगः । यददश्चन्द्रमसि कृष्णं पृथिव्या हृदयश्रितम् । तदहं विद्यास्तत्पश्यन् माहं पौत्रमघरुदम् ॥ १ ॥ ततो वामदेव्यं गायेत् । एतत्प्रतिपदि द्वितीयायां वेति केचित् । मातरं शिशुं च विहाय देशान्तरस्थोऽपि पिता चन्द्रमसे उदकाञ्जलिचयं दद्यात् ॥ इति शिशोचन्द्रदर्शन प्रयोगः || अथ नामकरणप्रयोगो निरूप्यते । जन्मदिवसादेकादशेऽन्हि पिता नाम कुर्यात् । देवान्मानुषादोक्तदिने तदकरणे एकोत्तरशततमदिवसे । तचाप्यकरणे द्वितीयसंवत्सरे, प्रथमदिने वा कुर्य्यात् । “न स्वेऽग्नावन्या मस्स्यान्मुक्तैकां समिदाहुतिम् । स्वगर्भसत्क्रियाथाश्च यावन्नासा प्रजायते ॥ १ ॥ अग्निस्तु नामधेयादिह मे सर्वच लौकिकः । न हि पित्रा समानीतः पुचस्य भवति क्वचित्” । इति कर्मप्रदीपवचनान्नामकरणे लौकिकाग्निग्रह्यः । गर्भाधानपुंसवनसीमन्तोन्नयनक परम्परया गर्भसंस्कारकत्वेऽपि साक्षात्पत्नी संस्कारार्थत्वातेषु गृह्याग्निरेव युक्तः । येषां मते गर्भसंस्कारार्थत्वं तन्मते गृच्चाग्नेरप्राप्तौ तद्दचनविरोधस्स्पष्ट एव । अस्य मम कुमारस्य For Private And Personal
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy