________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयगृह्मकर्मप्रकाशिका |
नादिकं प्राशनस्य जातकर्म्माङ्गत्वं बोधयति । सूचान्तरे नालच्छेदनादेर्ज्जतक्रमन्ते विधानादिति चेन्न । गोभिलमतेऽन्नप्राशनात्परमेव नालच्छेदनविधानाङ्गीकाराहो भिलीयानां जननकाल एव जातकमी न्नप्राशनञ्च कर्त्तव्यमित्याहुः ॥ इत्यन्नप्राशनप्रयोगः ॥
For Private And Personal
७५
अथ चन्द्रदर्शनप्रयोगः ॥ कुमारस्य जन्मकालमारभ्य तृतीयो यश्शुक्लपक्षस्तच तृतीयायां शिशोश्चन्द्रं प्रदर्श्य पिता कृताञ्जलिपुटञ्श्चन्द्रमुपतिष्ठते । प्रातः कुमारं सशिरस्कं स्नापयित्वा, पत्न्या सह ब्राह्मणाननुज्ञाप्य, गणेशं संपूज्य, कुमारस्य करिष्यमाणज्योत्त्रादर्शनकर्मीङ्गं नान्दीमुखश्राद्धं प्रातः कुर्य्यत् । ततोऽस्तमिते सूर्य्य साहित्यापगमे पिता चन्द्राभिमुखा देशकाला संकीर्त्य शिशोरायुरारोग्यार्थं शिशोश्चन्द्रदर्शनाख्यं कर्म करिष्ये। इति संकल्पं कुर्य्यात् । तदा माता अह तेन वाससा मुखवजें कुमारमाच्छाद्य, भर्त्तुर्दक्षिणतो गत्वोत्तानमुखमुदक्रिसं कुमारं पित्रे प्रदाय, पत्यः पृष्ठदेशेनोत्तरतो गत्वा पत्यरुत्तरस्यां दिशि माताऽवतिष्ठते । ततः पिता जपति यत्ते सुसीमेति । तिसृणाम्पृचां प्रजापतिविरनुष्टुप्कन्दश्चन्द्रो देवता शिशोचन्द्रदर्शने विनियोगः । यत्ते सुसीमे हृदयचितमन्तः प्रजापतौ । वेदाहं मन्ये तद्ब्रह्म माहं पैौचमघं निगाम् ॥ १ ॥ यत्पृथिव्या अनामृतं दिवि चन्द्रमसि श्रितम् । वेदामृतस्याहं नाम माह पौचमघररिषम् ॥ २ ॥ इन्द्राग्नी शर्म यच्छतं प्रजायै मे प्रजापती । यथाऽयं न प्रमीयेत