________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयगृह्मकर्मप्रकाशिका ।
O
धत्तां पुष्करसजी स्वाहा ॥ १ ॥ सदसस्पनिमद्भुतं प्रियमिन्द्रस्य काम्यं । सनिम्मेधामयासिषं स्वाहा ॥ २ ॥ ततो नालच्छेदन स्तन्यदानं च कुर्विति ब्रूयात् । अत जा पिता सचैल स्नायात् । “भहभाष्ये पितुरपि पुत्रे जाते स्नानमिति” यत्तदस्मात्कर्मण अर्द्धमेव द्रष्टव्यम् । अत ऊर्ध्वं सूतिस्पर्श वर्जयेदादशराचात् । यत्तु जातकर्मणि नान्दीश्राद्धाभिधानं तन्न सम्यक् । “नाष्टकासु भवेच्छाद्धं न श्राद्धे श्राद्धमिष्यते । न सोष्यन्तीजातकर्मप्रेषितागतकर्मसु” । इति 'कर्मप्रदी' निषेधदशनात् । युक्तञ्चैतत् । अतिविलम्बेन नालच्छेदे शिश शरीरबाधापत्तेः । अत्र कुमारजिह्वायां “व्रीहियवमार्जनमेकं कर्म, हतप्राशनं दिनीयं कर्म, तदुभयं जातकर्मति” केचिन्मन्यन्ते । “परे तु, व्रीहियवमार्जनं जातकर्म, मृतप्राशनमन्त्रप्राशनाख्यं कान्तरमित्याहुः” । कः ? पुनरब ज्यायान, द्वितीयः । इति कुतः ? सर्पिः प्राशयेदित्युक्तेः । सर्पिश्चान्न भविष्यतीत्यन्नप्राशने तैत्तिरीयमांसस्याप्यन्यवान्नत्वदर्शनात् । नचेदं जातकम्मान्तर्गतं तथैव मेधाजननं सर्पिरित्यक्तऽपि ब्रीहियवमार्जनवा पूर्वसूत्रस्थनिमाष्टिंक्रिययैव मृताच्योतनसिद्धेः । एतेन 'बीहियवमार्जनं, सप्पिःप्राशनं च, जातकर्मेति' मत्वा, गौतमोक्तचत्वारिंशत्संस्कारसंख्यापरणायान्नसंस्काराय च गोमिलानुक्तमन्नप्राशनमर्ध्वर्युशाखोक्तं ग्रायमिति वदन्तः परास्ताः । परशाखोक्तविस्तृतान्नप्राशनानुष्ठानस्य वैफल्यस्मरणाच्च । तथाहि "कर्मप्रदीपे” । 'अक्रिया विविधा
For Private And Personal