________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयगृह्यकर्मप्रकाशिका |
७१
संस्कृतत्वात् । “यत्तु सीमन्तकरणं प्रथमे गर्भ" इति सूचऋदुक्त्या गर्भाधानपुंसवनयोः प्रतिगर्भमावृत्तिरिति तन्न । तयोरपि पाचसंस्कारकत्वात् । अत एव गर्भाधाने दक्षिणेन पाणिनोपस्थमभिम्टशेदित्युक्तः पाच संस्कारस्मङ्गच्छते "भहनारायणादयोऽपि सकृत्संस्कृते स्त्रीद्रव्ये यो यो गर्भ उत्पद्यते स संस्कृतो भवति तस्मात्सकृदेव स्याद्भीधान संस्कारो नतु प्रतिगर्भमिति' । एवं पुंसवन सीमन्तोन्नयनयोरपि द्रष्टव्यमित्याहुः” । तच प्रमाणवचनानि तचैव द्रष्टव्यानि ग्रन्थविस्तरभयान्नोच्यन्तेऽस्माभिः ॥ इति सीमन्तकरण प्रयोगः ॥
अथ मष्यन्तीहामः ॥ यदि पत्न्यासन्नप्रसवोदरपीडायुक्ता भवेत्तज्ज्ञात्वा शीघ्रं सुखप्रसवार्थं पत्या होम: कार्य्यः । योनिद्दारे स्थिते गर्भे सति, पत्न्याः शीघ्रं सुखप्रसवार्थमाज्याहुतायामीति संकल्य, पूर्ववदोपासनाग्निं संस्थाप्य तूष्णीं परिसमूह्य परिस्तीर्य्यज्यं संस्कृत्य पर्युक्ष्य, या तिरश्चीत्येताभ्यामाज्याहुतीः कुर्य्यात् । मन्त्रद्दयस्य प्रजापतिर्ऋषिरनुष्टुछन्दस्संराधिनी धाता च देवता सुखप्रसव होमे विनियोगः । या तिरी faud अहं विधरणी इति । तां त्वा घृतस्य धारया यजे सश्राधनीमहं सश्राधिन्यै देव्यै देष्ट्र्यै स्वाहा | संराधिन्यै देव्या इदं न मम । विपश्चित्पुच्छमभरत्तद्वाता पुनराचरत् । परेहि त्वं विपश्चित्पुमानयज्ञ्जनिष्यतेऽसानाम स्वाहा । धाच इदं न मम । सानामेत्यच जनिष्यमाण पुचस्य यत्किञ्चिद्गुह्यं नाम परिकल्योच्चारयेत् । पुमानयं जनिष्यते
For Private And Personal