________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६०
गोभिलीयाकर्मप्रकाशिका |
I
अस्य मन्त्रस्य प्रजापतिषिरनुष्टुप्छन्दो राका देवता सीमन्तोन्नयने विनियोगः । यास्ते राके समतयस्सुपेशसा याभिददासि दाशुषे वसूनि । ताभिनो अद्य सुमना उपार्गचि सहस्रपोष सुभगे रराणा ॥ १ ॥ एकैकेन द्रव्येण सीमन्तमुनीय तन्निरस्याप उपस्पृश्यान्येन सीमन्तमुन्नयेत् । अथ कृशरस्थालीपाकमादाय तचावेक्षणयोग्यं घृतमवसिच्य तं पत्न प्रदर्शयेत् । पतिस्स्थालीपाकष्टतं पश्यन्तीं पत्नीं किं ? पश्यसीति पृष्ट्वा प्रजां पशून् सैाभाग्यं मह्यं दीर्घायुषद्धं पत्यरिति पत्नीं . वाचयेत् । नाच छन्दो यजुष्ट्द्वात् । विनियोगः प्रसिद्धः । येन मन्त्रेण यत्कर्म क्रियते तस्य तच विनियोगो न्याय्यः । ततो ऽवेक्षितच भोजनं मेक्षणेन पाचान्तरे उद्धृत्य पत्नी कुर्य्यात् । भोजनसमये वीरसूस्त्वं जीवसूस्त्वं पत्नी त्वं भवेति मङ्गलगिरोऽन्या ब्राह्मण्यो वदेयुः । ततो व्याहृतिचय होमादितन्त्रशेषं समापयेत् । " केचित्तु तन्त्र परिसमाप्यनन्तरं पत्न्या क्रशरचरुभक्षणं कायें, कर्ममध्ये भोजनाप्रसक्तेई तशेषाभावाच्चेति वदन्ति । एतच्च सीमन्तोन्नयनं प्रथमगर्भ, उत ? द्वितीयगर्भादावपि । “अच वदन्ति 'प्रतिगर्भमावर्त्तनीयमेतत् । अन्यथा गौतमादिभिः प्रतिपुरुषं परिगणितगर्भाधानाद्यष्टाचत्वारिंशत्संस्कारविरोधापत्तेः " । परे तु न तत्प्रतिगर्भमावर्त्तनीयं “ सीमन्तकरणं प्रथमे गर्भे इति गोभिलाचार्यै सूचितत्वात् । नच हितीयापत्यादेस्संस्कारन्यनतेति शङ्कनीयम् । गर्भपाच संस्कारेण तच जातानामपत्यानामपि
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal