________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयकर्मप्रकाशिका |
६०
संख्याकान्माषान् यवान्वा परिगृह्य न्यग्रोधसमीपं गत्वा, यद्यसि सोमी मामायत्वेत्यादिमन्त्रान्ते वटस्वामिने यवा न्माषान्वा दत्वा तदभावे वटमूले वा संस्थाप्य, वटस्येशान दिग्गतशाखाग्रस्थितमुभयतः फलं कीटाद्यदूषितमम्लानं शुङ्गाख्यम्मुकुलितपल्लवमोषधयस्सुमनस इत्युत्थाप्य यज्ञियतृणैर्वेष्टयित्वा गृहमानीयाकाशस्थाने स्थापयेत् । सप्तानां प्रजापतिऋषिर्यजुश्शुङ्गा देवता शुङ्गापरिक्रयणे विनियोगः । ओषधयस्सुमनस इत्यस्य प्रजापतिर्ऋषिर्यजुरोषधयो देवताश्शुङ्गोत्यापने विनियोगः । यद्यसि सामी सोमाय त्वा राजे परिक्रीणामि ॥ १ ॥ यद्यसि वारुणी वरुणाय त्वा राज्ञे परिक्रीणामि ॥ २ ॥ यद्यसि वसुभ्यो वसुभ्यस्त्वा परिक्रीपामि ॥ ३ ॥ यद्यसि रुद्रेभ्यो रुद्रेभ्यस्त्वा परिक्रीणामि ॥ ४ ॥ यद्यस्यादित्येभ्य आदित्येभ्यस्त्वा परिक्रीणामि ॥ ५ ॥ यद्यसि मरुद्भ्यो मरुद्भ्यस्स्त्वा परिक्रीणामि ॥ ६ ॥ यद्यसि विश्वेभ्यो देवेभ्यो विश्वेभ्यो देवेभ्यस्त्वा परिक्रीणामि ॥ ७ ॥ ओषधयस्सुमनसेो भूत्वाऽस्यां वीर्यसमाधत्तेयं कर्म करिष्यतीति । इतिशब्दान्तो मन्त्रः । ततः सशिरस्कस्रातया पत्न्या सह ब्राह्मणाननुज्ञाप्य पुंसवनवत्संकल्पं कुर्य्यात् । तत औपासनाग्निं संस्थाप्याज्यतन्त्रेण ब्रह्मासनास्तरणादिव्याहृतिचय होमान्तं कुर्य्यात् । अथ शोभननामानमग्निमाह्वयेत् । ततो ब्रह्मचार्य्यनधीतवेदा ब्राह्मणः, पतिव्रता कुमारी वा ऽग्नेरुत्तरत आसादितदृषदं प्रक्षाल्य, तत्र पूर्वमाहृतां शुङ्गां संस्थाप्य दृषत्पुत्रं हस्ते
I
For Private And Personal
-