________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयरह्मकर्मप्रकाशिका । श्चित्तश्रवणाञ्च । गर्भाधानदिने प्रातर्गर्भाधानकमाङ्गाभ्युदयिकश्राद्धं वक्ष्यमाणविधिना कुर्यात्। ब्राह्मणाननुज्ञाप्य गणेशश्च सम्यूज्य, देशकाला संकीर्त्य प्रतिगर्भसंस्कारायास्यामुत्पत्स्यमाना पत्यबीजगर्भसमुद्भवपापनिवृत्त्यर्थमिमां धर्मपत्नी गर्भाधानकर्म णा संस्करिष्यामीति सङ्कल्य, मारुतनामगृह्याग्निं विधिवत्संस्थाप्याज्यतन्त्रेण व्याहृतिहामान्तं कृत्वा, मनसा मन्वेणोपस्थाभिमर्शनं विभाव्योपरिष्टात्तन्वं समापयेत् । नावपूर्णाहुतिः । पुना राचौ द्वितीययामे दक्षिणेन पाणिनोपस्थमभिमृशेत् । विष्णयानि कल्पयत, गर्भ धेहि सिनीवालीतिरभ्याम । हयोर्मनत्रयोः प्रजापतिषिरनुष्टुप्छन्दो विष्ण्वादयो देवता उपस्थाभिमर्शने विनियोगः । विष्णयानि कल्पयतु त्वष्टा रूपाणि पिशतु । आसिंचतु प्रजापतिधीता गौं दधातु ते ॥ १ ॥ गर्भ धेहि सिनीवालि गर्भ धेहि सरस्वति । गर्भ ते अश्विनी देवावाधत्तां पुष्करसजौ ॥ २ ततो यथाशास्त्रं यथारूचि तथा ग्राम्यधर्मः कार्याः ॥ इति गर्भधानप्रयोगः ॥ ____ अथ पुंसवनप्रयोगः ॥ तृतीयस्य गर्भमासस्य प्रथमतृतीयभागे यत्पुण्यमहस्तत्र प्रातरेव पुंसवनं कुर्यात् । यद्युक्तकालातिपक्तिस्यात्तईि सर्वप्रायश्चित्ताहुतिं कृत्वा तत् कुर्यात् । इदं च प्रायश्चित्तमुपनयनादधः । “तदुक्तं कर्मप्रदीपे'। देवतानां विपर्यासे जुहोतिषु कथं ? भवेत् । सर्वप्रायश्चित्तं हुत्वा क्रमेण जुहुयात्पुनः ॥ १ ॥ संस्कारा अतिपत्येरन्नुक्तकाले कथञ्चन । हुत्वैतदेव कर्त्तव्या ये तपनयनादधः” ॥ २ ॥ उपनयनस्योक्त
५
For Private And Personal