________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
६३
गोभिलीयगृह्मकर्मप्रकाशिका । मयि रमस्वाहा । मयि रमाय स्वाहा । सर्वत्र कन्याया इदं न मम । पुनाहृतित्रयं हुत्वा पुनयाहृतित्रयश्च हुत्वा तूष्णीं समिदाधानादियज्ञवास्त्वन्तं कर्म कृत्वा ब्रह्मणे दक्षिणां दत्वा गुबर्बादीनभिवाद्य वामदेव्यगानं कुर्यात् । “केचित्तु तषणी समिधमाधाय गुरुमातृपित्रादीनभिवाद्यानुपर्दा क्षणादितन्त्र शेषं परिसमाप्य वामदेव्यगानमिति मन्यन्ते” ॥ इति । धृति होमप्रयोगः ॥
अथ चतुर्थी कर्मप्रयोग उच्यते । अत्र शिखिनामाग्निमाह्वयेत् । विवाहादिवसाचतुर्थी या तिथिस्सा चतुर्थी, | चतुर्थदिनमिति यावत । तस्मिन्दिने प्रातः प्राणानायम्य देशकाला संकीास्याः पत्न्या अन्नक्षम्यादिदोषापनुत्यर्थं प्रायश्चित्ताज्याहुतीहीष्यामीति संकल्य, गृयाग्नावाज्यतन्त्रेण व्याहृतित्रयोमान्तेऽग्ने प्रायश्चित्तेत्यादिभिविंशतिमन्त्रैराज्याहुतीर्तुत्वाऽग्नेरुत्तरतः संस्थापिते जलपाचे प्रत्याहुतिशेषं एतबिन्दमवन येत्। सर्वेषां मन्त्राणां प्रजापतिऋषिर्यजुरग्निबायुश्चन्द्रमास्सूर्यस्तत्समष्टिश्च देवता प्रायश्चित्ताज्यहोमे विनियोगः ॥ अग्ने प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि यास्याः पापी लक्ष्मीस्तामस्या अपजहि स्वाहा । अग्नय इदं न मम । एवं वायो प्रायश्चित्ते, साऽप्यवशिष्टमन्त्रः पूर्ववत् । वायव इदं न मम । चन्द्र प्रायश्चित्ते अपहि स्वाहा । चन्द्रायेदं न मम । सूर्य प्रायश्चित्त । अपजहि स्वाहा । सायेदं न मम | अग्नि
For Private And Personal