________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५८
गोभिलीयकर्मप्रकाशिका ।
।
I
नक्षचे दयमन्यमुखाच्छ्रुत्वा, षडाज्याहुतीर्जुहोनि । ततो वधूं ध्रुवं प्रदर्शयति । हेल टिम, ध्रुवं पश्येत्येवमुक्ते वधूर्भुवं पश्यति । ततस्तां ध्रुवं पश्यन्तीं वरो ध्रुवमसीति मन्त्रं वाचयेत् ॥ ध्रुवमसि ध्रुवा पतिले भूयासममुष्यासैौ । साचमन्त्रः । श्रमुष्येत्यच पद्यन्तम्भर्तृनाम गृह्णीयात् । असावित्यच प्रथमान्तं वधूनाम गृह्णीयात् । ततो हे लक्ष्मि, अरुन्धतीं पश्येति वरेणोक्ते वधररुन्धतीं पश्यति । पश्यन्तीं तां वगे वाचयेत् । अरुन्धत्यसि रुङ्घाहमस्मिविष्णुशर्मणा लक्ष्मीरिति । अत्र तृतीयान्तं भर्त्तृनाम गृह्णीयात् । ततो वरो वधूमनुमन्त्रयते ध्रुवा द्यौरित्येतयची । तच्च दक्षिणचस्तानामिकाग्रेण वधूं संस्पृशन्नवलोकयन्मन्त्रं पठ्ठेत् । अस्य प्रजापतिऋषिरनुष्टुप् छन्दोऽभिधीयमाना देवताऽनुमन्त्रणे विनियोगः । ध्रुवा द्यौर्भुवा पृथिवी ध्रुवं विश्वमिदज्ञ्जगत् । ध्रुवासः पर्वता इमे ध्रुवा स्त्री पतिकुले इयम् । ततो वधर्भत्तीरं नमस्करोति भर्तृगाचेण । श्रीवत्सगाचा लक्ष्मीरहम्भोः अभिवादयामि | आयुष्मती भव लक्ष्मीति प्रत्युक्तिः । ततो वध्वा सह वरोऽग्नेः पश्चादुपविश्य व्याहृतिचतुष्टयं पुनर्व्याहृतिचयश्व हुत्वा, तूष्णीं समिदाधानप्रभृतिपूर्णपाचदक्षिणानदानान्तं तत्त्वं समापयेत् । "तेन चैवास्य प्रातराहुतिर्हुता भवति। सायमाहुत्युपक्रम ण्यात ऊर्द्धं गृह्येऽग्नौ होमो 'विधीयत' इति सुचैर्विवाह है। मैरेव प्रातरा हुतिनिहत्तेस्मायं होमारम्भस्य चाक्तत्वात् । विवाचदिने राचौ लेखाहेामानन्तरं सायमैोपासनारम्भः कर्त्तव्य एव कौथुमीयानाम् ।
।
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal