________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५७
मोभिलीयगृह्मकर्मप्रकाशिका । तच वधू कृतमानामुपवेशयति । आनक्षचदर्शनान्मूचपुरीषा. त्साटेरन्यत्र नोत्तिष्ठेत् । दिवा वचा भाजनितिर्वरस्य च। "तेन चैवास्य प्रातराहुतिईता भवतीति” सूत्रेण विवाहाग्नौ विवाहहोमैरेव प्रामहामस्य निवृत्तित्वात्सायमापासनारम्भस्यावश्यकत्वेन तदर्थं वरस्य भोजन नित्तिर्युक्तव । ततो नक्षत्रोदयं श्रुत्वा षडाज्याहुनीर्जुहोति लेखेत्यादिभिः षड्भिमचैः । प्रत्याहुति हुतशेषाज्यबिन्दून्वधूशिरसि पातयेत् । लेखेत्यादीनां षण्णाम्मन्त्राणां प्रजापतिषिरनुष्टुप्छन्दोऽभिधीयमाना देवता पणिग्रहणस्याज्य होमे विनियोगः । लेखा संधिषु पथ्मस्वावर्त्तषु च यानि ते। तानि ते पूर्णाहुत्या सर्वाणि शमयाम्यहं स्वाहा ॥ १ ॥ केशेषु यच्च पापक्रमीक्षिते रुदिते च यत् । सानि ते पूर्णाहुत्या सर्वाणि शमयाम्यहं स्वाहा ॥ २ ॥ शीले यच्च पापकं भाषिते हमिते च यत् । तानि ते पूर्णाहुत्या सर्वाणि शमयाम्यहं स्वाहा ॥ ३ ॥ अारोकेषु च दन्तेषु हस्तयोः पादयोश्च यत् । तानि ते पूर्णाहुत्या सर्वाणि शमयाम्यहं स्वाहा ॥ ४ ॥ अवारुपस्थे जंघयोः सन्धानेषु च यानि ते। तानि ते पूर्ण हुत्या सर्वाणि शमयाम्यहं स्वाहा ॥५॥ यानि कानि च घोराणि सर्वाङ्गेषु तवाभवन् । पूर्णाहुतिभिराज्यस्य सर्वाणि तान्यशीशमं स्वाहा ॥ ६ ॥ सर्वत्राग्नय इदं न मम । कन्याया इदं न ममेति केचित । रात्रि विवाहपक्षे । आनक्षत्रोदयं वध्वा उपवेशनासम्भवात् । पूर्वविवा हे उत्तरतन्त्रांगव्याहृतिहामं कृत्वा, चमापवेशनं कत्वा, सद्य एव
For Private And Personal