________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
સદ
गोभिलीय कर्मप्रकाशिका |
“अन्ये तु ‘सूचेोपात्तमन्तमिति कर्मदयं विद्यायानुषङ्गेन वध्वाः कर्मकल्पनायोगादेकस्यान्तशब्दस्य वैय्यर्थ्याच्च, तस्मादर्हिषान्तं कटान्तमिति बर्हिषामग्नेः पश्चादास्तीर्णकुशानामन्तभागस्यं कटान्तभागं प्रापयेत् । तथाचास्तूतबर्हिषां किचिदुपरिकटान्तभागोऽस्तीति गम्यते । युक्तचैतत् । अग्नेः पश्चादचिरास्त्री तन्मूले कटमास्टणुयादित्याहुः” । पूर्वी माता लाज - नादाय भ्राता वा वधमाकामयेदश्मानं दक्षिणेन प्रपदेनेत्यत्र “ केचित् पूर्वमाते त्येकं पदम् । अस्यार्थः । पूर्वदिशि स्थिता या वध्वा एव मातेति” तदपेशलं, सम्भवति समानाधिकरणे वैयधिकरण्येनान्वयायोगात् । तर्चि कथं ? वर्ण्यत इति चेदित्यम् । बीनां मातृणां या प्रथमा सा पूर्वेति ॥ इति विवाह प्रयोगः ॥ तत उत्तरविवाहार्थं वधूं वरं भाण्डे स्थापितमथवा समिदादा समारोपितं विवाचाग्निश्च शकटादिवादने संस्थाप्य वरपक्षीया विवाहस्यैशान्यां दिशि नित्यनैमित्तिककर्मत परस्वाध्याययुक्तं ब्राह्मणग्टहं, तदभावे यथासम्भवं यच कापि दिशि स्थितं ब्राह्मणग्टहं नयेयुः । तच वर उल्लेखनादिपूर्वकमग्निं प्रतिष्ठाप्याज्यतन्त्रेण व्याहृतिचय होमान्तं कुर्यात् । वध्र्वरयोर्विवाचाग्निमन्वारभ्य गमनम् । ब्राह्मणगृचाभावे विवाहवेद्यामेव । अस्मिन्पक्षे न परिसम्म चनादिपूर्वक मग्निस्थापनमग्नेः प्रतिष्ठितत्वान्नाच पृथगाज्यतन्त्रम् । “गणेष्वेकं परिसमूचनमिति"सूचात् । किन्तु प्रधानमेव कुर्यात् । ततोऽग्नेः पञ्चालेोचितन्तदभावेऽन्यवर्णं वा वृषभच पूर्वशिरस्कमुत्तरलोमास्तीर्य्य
1
For Private And Personal