________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयकर्मप्रकाशिका |
५१
1
प्रति मुचामि पाशस्वाहा । वैवस्वतायेदं न मम । परैतु मृत्युरमृतं म आगाद्दैवस्त्वता नो अभयं कृणोतु । परं मृत्यो अनु परेहि पन्थां यच नो अन्य इतरो देवयानात् चक्षुष्मते शृखते ते ब्रवीमि मा नः प्रजाश्रीरिषो मोत वीरान स्वाहा । वैवस्वतायेदं न मम । ततो व्यस्ताभिः समस्ताभि व्याहृतिभिराज्येन चत्र आती हुत्वा संहतस्तौ वधूवरौ सोत्तिष्ठतः । ततः पतिः पत्न्याः पृष्ठतो गत्वा पत्न्या दक्षिणत उदङ्मुखे वध्वञ्जलिङ्गहीत्वाऽवतिष्ठते । तदा पूर्वदिशि स्थिता वधूमाताऽथवा, वध्वा भ्राता वाऽग्नेः पश्चादासादितलाजगं सव्यहस्तेन गृहीत्वा वध्वा दक्षिणपादाग्रं दक्षिणहस्तेन पूर्वमासादितेऽश्मनि स्थापयति । अश्माक्रमणकाले वर इममश्मानमारोहेति मन्त्रं जपेत् । इममश्मान मिति मन्त्रस्य प्रजापतिर्ऋषिरनुष्टुप् छन्दोऽश्मादेवता अश्माक्रमणे विनियोगः । इममश्मानमारोहाश्मेव त्वःस्थिरा भव । द्दिषन्तमपबाधस्व मा च त्वं द्विषतामधः । ततो माता भ्राता वा, सुत्रेणाज्यमादाय वराज्ञ्जन्तैा स्थापिते वध्वज्ञ्जन्तै सकृदुपस्तीर्य्य, शूर्णमन्यस्मै दत्वाऽञ्ज्ञ्जलिना लाजान् सकृदवदाय तस्मिन्नञ्जलैौ निक्षिप्य पुनः सुत्रेणाज्यमादायाज्ञ्जलिस्था ल्लाजान् दिरभिघारयेद्दरश्चनुरवत्ती चेत् । पञ्च वत्ती चेद्दिरुपस्तीर्य्य लाजान् सकृदवदायाज्ञ्जलावेोप्य दिरभिघारयेत् । ततो वधूर्वराज्ञ्जलि - मविमुञ्चती लाजान् जुहोति । होमसमये वरो मन्त्रं पठेदियन्नार्य्यपब्रूत इति । स्वाहाकारे लाजहोम: । अस्य
For Private And Personal