________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४९
गोभिलीयगृह्मकर्मप्रकाशिका । मन्त्रस्य प्रजापतिषिर्जगतीछन्दो वस्त्रकारा देवताऽधोवस्त्रपरिधापने विनियोगः । याऽकृन्तनवयन् या अतन्वत याश्च देव्यो अन्तानमितो ततम्य । तास्वा देव्या जरसा संव्ययं. त्वायुष्मतीदं परिधत्व वासः । पुनरन्येनाहतेन वस्त्रेण यज्ञोपवीतवत्परिधत्तेति वधू परिधापायेत् । परिधत्त वाससेति मन्त्रस्य प्रजापतिषिस्त्रिष्टुपचन्दः परिधापयितारो देवता उत्तरीयवस्त्रपरिधापने विनियोगः । परिधत्त धक्त वाससैनाशतायुषीं कृणुत दीर्घमायुः । शतञ्च जीव शरदः सुवर्चा वसूनिचार्य विभृजासि जीवन् । ततोऽग्न्यगाराइर्विस्त्रधारणं कृतवती वधमग्न्यभिमुखीमानयन् वरमोमो ददगन्धर्वायेति जपेत् । अस्य मन्त्रस्य प्रजापतिषिरनुष्टुप्छन्दस्सोमादयो देवता जपे विनियोगः । सोमो ददगन्धर्वाय गन्धर्वा दददग्नये। रयिञ्च पुत्राश्चादादग्निर्मह्यमथो इमाम । ततोऽग्निं प्रदक्षिणीकृत्याग्नेः पश्चात्संवेष्टितकटासनसमीपमानयति । यदा दक्षिणेन पदा वधः कटस्य पूर्वान्तं प्रवर्त्तयति तदा तां वरो वाचयति प्र मे पतियान इति । प्र मे पतियान इति मन्त्रस्य प्रजापतिषिईिपाज्जगतीछन्दः पतिर्देवता पदप्रवर्त्तने विनियोगः। प्र मे पतियानः पन्थाः कल्बतां शिवा अरिष्टा पतिलोकं गमेयमा वध्वा: पठनसामाभावेवरस्वयं पठेत । वरपठने तु प्र मे इत्यस्य स्थाने प्रास्या इति पाठः । अग्नेः पश्चाइईि. षोन्ते कटे प्राङ्मुख उपविश्य स्वदक्षिणकटप्रान्ते वधू प्रामुखीमुपवेशयेत् । सुवं सम्मृज्य तूष्णीं समिधमाधाय पूर्ववददिले- |
For Private And Personal