SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ४० गोभिलीयगृह्मकर्मप्रकाशिका । प्रजापतेर्म खमेतद्वितीयां तेन पंश्माभिभवासि सीनवशावशिन्यसि राजी स्वाहा ॥ २ ॥ अग्निं क्रव्यादमकृण्वन् गुहाना स्त्रीणामुपस्थमषयः पुराणाः । तेनाज्यमकृण्वस्त्रैशृङ्ग त्वाष्ट्र तद्दधातु स्वाहा ॥ ३ ॥ अथ कन्यापिता वेदिकायां पन्या कन्यया च सह प्रामुखो ब्राह्मणाननुज्ञाप्यासीन: कुशपविचपाणि: प्राणानायम्य देशकाला संकीर्त्य दशानां पूर्वेषां दशानामपरेषामात्मनश्च नित्यनिरतिशयानन्दशाश्वतब्रह्म लोकावाप्त्यर्थं कन्यादानाख्यमहादानं करिष्य इति सङ्कल्य प्रत्यमखं वरं वक्ष्यमा गमधुपर्कणासनपुष्यादिभिवा सम्पूज्य, कन्यां वामकरे धृत्वा दक्षिणहस्तेन दक्षिणाताम्बूलादिकं गृहीत्वा गोवादिकमुक्त्वा वरहस्ते दद्यात्। प्रत्यङ्मुखस्तिष्ठन्वरोदक्षिणमुत्तानं साङ्गलि कन्यायाः पाणिं देवस्यत्वेति प्रतिगृह्णीयात् । “प्राङ्मुखो दद्यादुदङ्मुखो गृह्णीयादिति” केचित् । गोत्रोच्चारणं यथा । अमुकगोचोद्भवायामुकशर्मणो नप्त्रेऽमुकशर्मण: पौचायामुकशर्मण: पुचाय महाविष्णस्वरूपिणेऽमुकशर्मणे वरायामुकगोत्रोद्भवाममुकशर्मणो नप्त्रीममुकशर्मण: पौत्रीममुकशर्मणः पुचीममुकनाम्नोमिमां कन्यां सवस्त्रां सा. लङ्कारां श्रौतस्मातकर्मसहायिनी प्रजापतिदेवतां समाददे । न ममेत्युक्त्वा, कन्यां कनकसम्पन्नां सर्वाभरणभूषिताम् । दास्यामि विष्णवे तुभ्यं ब्रह्मलोकजिगीषया । इतिसहिरण्योदकं कन्यादक्षिणहस्तञ्च दद्यात् । वरः प्रतिगृह्णीयात्। देवस्य त्वा सवितुः प्रसवेऽश्विनोबाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामि। For Private And Personal
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy