________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयगृह्मकर्मप्रकाशिका । मुख्यत्वाच्च, कन्यापिता तत्पक्षीयो वा, वरगृहङ्गत्वा वैवाहिके शुभदिवसे गणेशं सम्पूज्य वरं तत्पित्रादींश्च सम्यूज्य तैः प्रतिपजितो देशकाला संकीर्त्य करिष्यमाणोद्दाहाङ्गं वाग्दानं करिष्य इति सङ्कल्पः । ताम्बलफलान्यादायामुकवेदान्तर्गताऽमुकशाखाध्यायिनेऽमुकगोवायाऽमुकशर्मणो नम्वेऽमुकशमर्मण: पोचायाऽमुकशर्मणः पुत्रायाऽमुकशर्मणे वराय मदीयां कन्यां वाचा सम्प्रदद इति दद्यात् । असम्भवे पूर्ववत्कन्यापिता वाग्दानं खटहे कृत्वा फलादिकं दृष्टपूर्वाय वराय प्रेषयेत् । अथ कन्यापित्रोदाइस्य पूर्वदिने विवाहाङ्गमाभ्युदयिकश्राई कर्त्तव्यमन्त्ररूपेण हिरण्यरूपेण वा । तत्यप्रयोगस्त्वस्माभिरन्यत्र वक्ष्यते। वरपिताऽपि विवाहाङ्गमाभ्युदयिकश्राद्धं कुर्यात् ॥ अथ विवाहदिने प्रात: कन्यामाताऽन्या वा माषान्यवान्वा जलेन पेषयित्वा तेन कल्केन सर्वाङ्गोइतनपूर्वकं कन्यां सापयेत् । तथा स्थापितां कन्यां ज्ञाति: पिता वा, कामवेदतेनामेत्यादि. मन्त्रैर्बहदकेन शिरसि त्रिवारमभिषिञ्चेत् । उत्तराभ्यां मन्त्राभ्यां यथा गुह्यमालाक्तिम्भवेत् । प्रथममन्त्रेऽमुमित्यस्य स्थाने वरस्य द्वितीयान्तन्नाम वदेत । कामवेदते इत्यादिमन्त्राणामादिमन्त्रस्य प्रजापतिषिः प्रस्तारपग्लिन्दः कामो देवता द्वितीयमन्त्रस्य ज्योतिर्जगती छन्द उपस्थरूपः कामो देवता तृतीयमन्त्रस्य ज्योतिस्त्रिष्टुप्छन्द उपस्थरूपः कामो देवता कन्याऽभिषेचने विनियोगः । काम वेद ते नाम मदोनामासि समानयामसुरा ते अभवत् । परमत्र जन्माग्ने तपसो निर्मितोऽसि स्वाहा ॥ १ ॥ इमन्त उपस्थं मधुना सस्मृजामि
For Private And Personal