________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयगृहकर्मप्रकाशिका। विवाहोपासनारम्भानन्तरं वैश्वदेवारम्भ: । कालान्तरे चेत्यायश्चित्तपर्वकं वैश्वदेवारम्भः । तस्य प्रयोगः । ब्राह्मणाननुज्ञाप्य गणेशं संपूज्य नान्दीश्राद्धं कृत्वा, देशकाला संकीर्त्य वैश्वदेवमारस्ये तच्च यावज्जीवं सायंप्रातः करिष्य इति सङ्कल्य वैश्वदेवं कुर्यात् । स्त्रीह सायं बलीन्हरेत्यातः पुमान् । सर्वार्थ पक्कस्य पिचथं ब्राह्मणभोजनार्थं वा पक्वस्यान्नमादाय वैश्वदेवं कृत्वा ब्राह्मणान् भोजयेत् । स्वयञ्च भुञ्जीयात् । श्रावे चाग्नौकरणान्ते विकिरान्ते पिण्डदानान्ते वा वैश्वदेवः । अग्निष्टोमादियज्ञे यजमानस्य वैश्वदेवनिवृत्तिः । एकस्मिन्काले व्रीहियवादीनां धान्यानां पाके, एकस्मागहीत्वा सकदेव होमबलिहरणं कुर्यात् । वैश्वदेवानन्तरं बहुब्राह्मणानां भोजनार्थ पुनः पाके सति, न वैश्वदेवानुष्ठानम् । एकपाकोपजीविनां भातपुत्रादीनां भोजनार्थं बहुषु महानसेषु पाकेषु, गृहपति पाकादेव वैश्वदेवं कुर्यात् । इति वैश्वदेवप्रयोगः ॥ इति चतु
खण्डिका ॥ अथ पञ्चमषष्ठसप्तमाष्टमनवमखण्डिकाभिदशौर्णमासस्थाजीपाकप्रयोग उत्तम चास्माभिः पर्वमेव वर्णितः । इति प्रथमप्रपाठकस्समाप्तः ।
अथ द्वितीयप्रपाठकः । तत्रादौ विवाहप्रयोग उच्यते ॥ सामवेदीयमन्त्र ब्राह्मणे | पर्युक्षणमन्त्रपाठानन्तरं विवाहमन्त्राणां पाठात् । “पुण्ये नक्षत्रे दारान्कुर्वीत”। पुण्यनक्षत्राणि ज्योतिश्शास्त्रोक्तानि । सूत्रकृन्मते, उत्तरायणे शुक्लपक्षे पुण्येऽहनि मध्यान्हात् प्राग्विवाहः।।
For Private And Personal