________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयकर्मप्रकाशिका |
उपस्पृश्य, बलिशेषमुदकेनासाव्य प्राचीनावीती पितृतीर्थेन सर्वेषां दक्षिणतः पितृभ्यस्स्वधेति बचिन्निदध्यात् । सर्वेषाम्बलीनां पृथक् पृथक् पुरस्तादपान्निनयनमुपरिष्टाच्च सेचनम् | अप उपस्पृश्य कृताञ्जलिपुटेोऽग्निं प्रार्थयेत् । आरोग्यमायुरैश्वय्यं वीर्धृतिश्शां बलं यशः । ओजो वर्त्तः पशून् वीर्यं ब्रह्म ब्राह्मण्यमेव च ॥ सैाभाग्यं कर्मसिद्धिं च कुलज्यैद्यं सुकर्टताम् । सर्वमेतत्सर्वसाक्षिन्द्रविणोद रिरीहि नः । ततो नित्यबलिहरणानन्तरं काम्यबलिहरणं कुर्य्यात् । सर्वेषामुत्तरतो यवेभ्यो नमः । इति यवाग्रयणेोत्तरं यावद्वद्याग्रयणम् । atraणोत्तरं व्रीहिभ्यो नम इत्यायवाग्रयणं । तथैव त्यागः । अनेन दीर्घायुर्भवति । स्वकर्त्तकोऽयम्बलिः । प्रवासादावेतस्य लोपः । दत्तेऽन्ने कणमण्ड मिश्रित जलेन रुद्रेभ्यो नम इति बलिं दद्यात् । स रौद्रो भवति । अयं बलिस्तु राचैौ देयः । वामदेव्यगानम् । एतावान्वैश्वदेवबलिचरणप्रयोगः कै थुमीयानान्नातोऽधिकस्सूचान्तरोक्तो ग्राह्यः । यजमानप्रवासे रोगादिना पीडिते च, ब्राह्मणद्वारा होमा बलयश्च कर्त्तव्याः । वैश्वदेवं विना दम्पत्योर्भेाजनमयुक्तं भवति । यदि स्त्रीबाला रोगिणी गर्भिणी वा स्यात्तस्या वैश्वदेवात्पूर्वं भोजनं न दोषावहम् । एवम्बालवृद्धातुराणामपि पूर्वं भोजनम् । एवं सायंप्रातर्वैश्वदेवं यावज्जीवं कर्त्तव्यम् । उपवासदिनेऽपि पुरुषसंस्कारकत्वात् । अन्नसंस्कारस्त्वावान्तरफलम् । एककालं वैश्वदेवलापेऽहोराचमुपवासः । कालदयात्यये वैश्वानरश्चरुः ।
८
For Private And Personal
४३