________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयगृहाकर्मप्रकाशिका । गृह्याग्निश्चेन्न पञ्च भूसंस्काराः । सर्वपाके निहत्ते शुचिभूतां पत्नीमन्यां वा भूतमिति ब्रहीत्यक्त्वा तो भूमिति वाचयित्वा, तदन्नममिसमीपमानीय गृहपतिरोमित्यच्चैः प्रतिजपित्वा तस्मै नमस्तन्माख्या इत्युपांशु प्रतिजपति । ततोऽग्निं प्रज्चाल्य तष्णीं परिसमूह समिधमाधायोदकाञ्जलिसेचनं पर्युक्षणच पूर्ववत्कृत्वाऽग्नेः पश्चादासादितमन्नं प्रोक्ष्य चविष्यैर्व्यञ्जनैरुपसिच्य तूष्णीं समिधमाधाय हस्तेन जुहुयात् । प्रजापतये वाहेति मनाचार्य मध्ये जुहोति । प्रजापतय इदं न मम । अमये स्विष्टकृते स्वाहेत्युत्तरार्द्धपूर्वाई जुहोति । अग्नये विष्टकृत इदं न मम । ततः समिदाधानादि । अथ हुतशेषेणान्नेन बलीन् हरति । तत्तत्स्थाने बलिहरणस्यासम्भवेऽः पश्चादेकस्मिन्देशे सूत्रकृतानुमतं बलिहरणं कुर्यात् । “तदुक्तं 'कर्मप्रदीपे' । अथ तदिन्यासो द्धिपिण्डानिवोत्तरोत्तराचतुरो बलीन्निदध्यादित्यादिना । तत्र चमसस्थं जलमादाय प्रासंस्थां जलधाराम्भूमौ कृत्वा, बलिचतुष्टयपर्याप्तमन्नं हस्ते गृहीत्वा, पृथिव्यै नमः । वायवे नमः । विश्वेभ्यो दवेभ्यो नमः। प्रजापतये नम इति चतरो बलौन प्राक्संस्थाविधाय तेषामुपरि पूर्ववज्जलं प्रक्षिपेत् । तेषामुत्तरतोऽभ्यो नमः । ओषधिवनस्पतिभ्यो नमः । श्राकाशाय नमः । कामाय नम इति प्रासंस्थान चतुरो बलीन्निदध्यात् । तेषामुत्तरतो मन्यवे नमः । इन्द्राय नमः । वासुकये नमः । ब्रह्मणे नम इति चतुरो बलीन्निदध्यात् । सर्वेषामुत्तरतो रक्षोजनेभ्यो नमः । अप
For Private And Personal