________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४०
गोभिलीयरह्मकर्मप्रकाशिका । अन्धित्रययुतं पञ्चग्रन्थियुतं वा कुर्यात् । सूक्षोत्पादनादिकाले "ध्यातव्यदेवता आच, 'गृह्यासंग्रहकारः' । ब्रह्मणोत्पादित सूत्रं विष्णुना चिगुणीकृतम् । रुद्रेण च कृतो अन्थिस्साविच्या चाभिमन्त्रितम्" ॥ अयम्भावः । सूत्रोत्पादनादिकर्मसु तत्तद्देवता प्रतिपादकमन्त्रान जपेड्या येद्दा तत्तद्देवताः । ताश्च, कारोऽग्नि गस्सोमः पितरः प्रजापतिर्वसव इति। धारणात्पूर्वं गायच्या दशकृत्वोऽभिमन्त्रयेत्। धारणप्रकार: । दक्षिणं बाहुमूर्द्धमत्तानं कृत्वा तत्र यज्ञोपवीतग्रन्थिप्रदेशं संस्थाप्याधः प्रदेशे वामहस्तमवाञ्चन्निधाय, वक्ष्यमाणमन्त्रेण शिरोहारा वामांसे प्रतिष्ठापयति। दक्षिणकक्षमन्ववलम्बनं भवति । न नाभेरूध्वं नाधः। यज्ञोपवीतधारणमन्त्र उपनयने वक्ष्यते । चोरादिभिरपहुते विनष्टे वा, जलादो शीघ्रमेव वस्त्रङ्कुशरज्जु वा यज्ञोपवीतवद्धृत्वा, शीघ्रमेव कापसतन्तुं यथोक्तलक्षणयज्ञोपवीतं विधिवद्धारयेत् । सदैव यज्ञोपवीतिना भवितव्यम् । प्राचीनावीती पितृकार्ये । तस्य लक्षणम । सव्यं बाहुमदृत्य शिरोऽवधाय दक्षिणेऽसे प्रतिष्ठापयति, सव्यं कक्षमन्ववलम्बमेवं प्राचीनावीती भवति । अथाचमनविधिः ॥ तवादी पादौ इस्तो प्रक्षाल्य, त्रिवारमुदकं ब्रह्मतीर्थन पीत्वा, हिरोष्ठौ परिमृज्य पादौ शिरश्चाभ्यख्यादिर्नेबद्दयं नासापुटवयं कर्णइयं च स्पृशेत् । कर्मप्रदीपे विशेषः । संहताभिस्च्यङ्गालीभिर्मुखमङ्गष्ठतर्जनीभ्यां नासापुटइयमङ्गु. ष्ठानामिकाभ्यां चक्षुषी, पुनस्ताभ्यां श्रेोचे, कनिष्ठाङ्गुष्ठाभ्यां नाभि, पाणितलेन हृदयं, सर्वाभिरङ्गालीभिः शिरोऽङ्गल्यौबीच
For Private And Personal