________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयगृह्मकर्मप्रकाशिका । ण्योर्विधीयते” इति ॥ अथ समारोपणप्रकारः ॥ अयन्ते योनिरित्यस्य विश्वामित्रोऽग्निरनुष्टबग्निसमारोपे विनियोगः । अयन्ते योनित्वियो यतो जातो अरोचथाः । तं जाननग्न आरोहाथाना वईया रयिम । इति मन्त्रेण होमोत्तरमरणिं प्रताप्याग्निसमारोहं तच भावयेत् । समित्समारोपे । एषा ते अग्ने समिदिति मन्त्रण समिधं प्रताप्याग्निसमारोहं तत्र भावयेत् । अस्य प्रजापतिरनुष्टबग्निम्ममित्समारोपे विनियोगः । एषा ते अग्ने समित्तया व स्व चाचप्यायस्व वाईषीमहि च वयमाचप्यासिषीमहि ॥ अथ प्रत्यवरोहणम् ॥ मन्त्रस्य प्रजापतिषिर्यजुरग्निवता प्रत्यवरोहणे विनियोगः । उद्दध्यस्वाग्ने प्रतिजागृहि त्वमिष्टापः ससृजेथामयच्च । अस्मिन् सधस्थे अध्यत्तरस्मिन्विश्वेदेवा यजमानश्च सीदत । अनेनारणिं निर्मथ्यायतने यथाविधि स्थापयेत । समित्समारोपे, अनेनैव समिधमभिमन्व्याहृताग्नावादध्यात् । ___अथ द्वितीयखण्डिकार्थ उच्यते ॥ “यज्ञोपवीतं करुतें"। सूत्रन्नवतन्त्वात्मकं चिकृतं ब्रह्मग्रन्थियुक्तं सर्वदाधार्यम् । तत्र विशेषः । शुचा देशे प्रामख उदङ्मुखो वा स्वाध्यायदिवसे पूर्वाहे सूत्रं निमीय, संहतदक्षिणहस्ताङ्गलिचतुष्टयमध्यपर्वदेशे षमवतिसंख्ययाऽऽवेष्ट्य पुनस्त्रिगुणीकृत्यापोहिष्ठेत्यादिभिरबलिङ्गमन्त्रैः प्रक्षाल्य, त्रिगुणीकृतं तत्सूत्रवामकरतले संस्थाप्य, दक्षिणकरतलेनोवं नयेदेतदूर्ध्ववृत्तं भवति। पुनस्तत्रिगुणीकृत्य दक्षिणकरतलेनाधोनयेदित्यधोरत्तं भवति । ततः प्रवरानुसारेण
For Private And Personal