________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
गोभिलीय
Acharya Shri Kailashsagarsuri Gyanmandir
३६
कर्मप्रकाशिका |
जलपूर्णं चमसंचाग्ने; पश्चादासादयेत् । अथवा, सायमेवाप: परिगृह्य ताभिरेव प्रातरभिपरिचय कर्त्तव्या । अथवा, महतोजलभाण्डादेवाग्निपरिचर्य्यार्थं ग्राह्यम् । ततस्तूर्य्यस्तमयात्पूर्वमभिप्रज्वलनङ्कत्वाऽस्तमिस्ते सायमाहुतिम् उदयात्पूर्वं प्रज्वलनङ्कृत्वा सूर्योदयात्पूर्वे सूर्योदये जाते वा प्रातराहुति - यात् । व्यवस्थिनोऽयं विकल्पो यथारम्भङ्गो भिन्न सूचिणाम् । ततस्तूष्णीमग्नौ समिधं प्रक्षिष्यानिं प्रज्वाल्य तत्र तत्र विक्षिप्ताग्निकणान्तूष्णीं कुशैरे की कुर्य्यात् । तदेव परिसमूहनम् । दक्षि जानु भूमा संस्थाप्य चमसेोदकमादायामेईक्षिणतो निर्ऋतिमारभ्याभिदिक्पर्य्यन्तं सन्ततामुदकधारामज्ञ्जलिना कुर्याददितेऽनुमन्यस्वेति मन्त्रेण । एवमः पश्चान्निर्ऋतिमारभ्य वायुदिक्पर्य्यन्तमञ्जलिना सिचेदनुमतेऽनुमन्यस्वेति मन्त्रेण । अग्नेरुत्तरतो वायुदिशमारभ्यैशानपर्य्यन्तमज्जा लिनेोदकधारां कुर्यात्सरस्वत्यनुमन्यस्वेति मन्त्रेण । एषां मंत्राणां प्रजापतिरेकपदा गायत्री छन्दोऽदित्यनुमतिसरस्वत्यो देवता उदकाञ्जलि - सेचने विनियोगः । ततोऽज्ञ्जलिनोदकमादाय देवसवितरित्य नेन मन्त्रेण सचिवऽग्निं प्रदक्षिणं परिषिष्वति । अस्य मन्त्रस्य प्रजापतिर्ऋषिर्यजुस्सविता देवताऽनुपर्युक्षणे विनियोगः । देव सवितः प्रसुष यज्ञं प्रसुव यज्ञपतिम्भगाय दिव्यो गन्धर्वः केतपू: केतन्नः पुनातु वाचस्पतिर्वाचन्नः स्वदतु । पर्य्यक्षणे विशेषः । पर्य्यक्षणारम्भको टिमभ्यन्तरतोऽवसान कोटिश्च बहि: कुर्वन् हामी द्रव्यं पर्युतणधाराया अभ्यन्तरतः कुर्वन्यरिषि
I
1
For Private And Personal