________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
आज्यतन्त्रप्रयोगः ।
ण्डिले पात्रस्थमग्निं भूर्भुवस्स्वर मुकनामानं प्रतिष्ठापयामीत्याभिमुख्येन प्रतिष्ठापयति । अथाग्निनामानि । गर्भाधाने मारुतः, पुंसवने चान्द्रमसः, गुङ्गाकर्मणि शोभनः, सीमन्ते मङ्गलः, जातकर्मणि प्रगल्भः, नामकर्मणि पार्थिवः, अन्नप्रा शने शुचिः, चौलकर्मणि सभ्यः, व्रातिकादिज्यैश्व सामान्तेषु व्रतेषु समुद्भवः, गोदाने सूर्यनामा, केशान्तेऽग्निनामा, समावतने वैश्वानरः, विवाह योजकः, चतुर्थीकर्मणि शिखी, धृतिहोमे धृतिनामा, आवसथ्ये भवः, वैश्वदेवे पावकः, लक्षहे। मे वन्दि:, कोटिहोमे हुताशन:, प्रायश्चित्ते विधिः पाकयज्ञे साहसः, पूर्णाहुत्यां मृड:, शान्तिके वरदः, पौष्टिके बलदः, आभिचारिके क्रोधः, वश्यार्थं कामदः, - एतान्यग्निनामानि तत्तत्कर्मसु ज्ञेयानि । ततस्तूष्णीं समिधमाधाय पश्चादग्नेर्भूमा न्या पाणी प्रतिष्ठाप्येदम्भूमेर्भजामच इति मन्त्रञ्जपति वस्वन्तं राचौ, धनमित्यन्तं दिवा । न्यश्वकरणप्रकार छन्दोगपरिशिष्टे | “दक्षिणं वामतो बाद्यमात्माभिमुखमेव च । करं करस्य कुर्वीत करणे न्यश्वकर्मणः ॥ अस्यैव भूमिजप इति सञ्ज्ञा । अस्य मन्त्रस्य प्रजापतिविरनुष्टुप् छन्दोऽग्निईवना भूमिजपे विनियोगः । ब्रदम्भमेर्भजामह इदं भद्राश्सुमङ्गस्वम् । परासपत्नान् बाधस्वान्येषां विन्दते वसु ॥ अन्येषां विन्दते धनम् ॥ तत इमस्ताममिति च्यचेन हस्ताभ्यां चिभिः कुशैय्वाग्निपरिसमूहनं कुर्यात् । तत्प्रकारस्तु कर्मप्रदीपे । कृत्वाऽग्न्याभिमुखा पाणी स्वस्थानस्था सुसंहिता । प्रदक्षिणं
२७
For Private And Personal
୫୯