SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयगृहकर्मप्रकाशिका । धाने तु, अतीतदिनपरिगणनयाऽतीतसायंप्रातहीम-वैश्वदेव-बलिहरण-पिण्डपितृयज्ञ-दर्शपूर्णमासस्थालीपाक-नवयज्ञ श्रवणाकर्माश्वयुजिकांग्रहायणी क्रीष्टकानामकरणजनितदोषनिहत्तये, तत्तद्दोमद्रव्यं ब्रीह्याच्यादिकमेतावत्परिमितं ब्राह्मणेभ्यः संप्रददे, इति संकल्पपूर्वकं दद्यात् । एवं कृतप्रायश्चित्त प्राधानाधिकारी भवेत । अथाधानप्रयोगः । अन्त्यसमिदाधानकाले, विवाहकाले च, प्रमादादिनाऽकृताधानः पूर्वोक्तशुभदिवसे पर्वणिवा, गृह्याग्निं समाधास्यन तत्पर्वदिवसे पत्न्या सह कृतप्रायश्चित्तो गृह्याग्निसमाधास्ये इति संकल्प्य, प्राचीनप्रवणमुदीचीनप्रवणं समं वा भूप्रदेशमुपलिप्यारत्निमाचं समं चतुरखं हादशाङ्गलोच्छितं चतुरङ्गालविस्तृतमेखलाचययुक्तं कुण्डं कृत्वा केशान्वापयित्वा, सात्वा, नान्दीश्राइं विधाय, ब्रह्माणं कृत्वा, ब्राह्मण-राजन्य वैश्याम्बरीषाणामन्यतमगृहादग्निमानीय शरा वे कांस्यपात्रे वा निधाय, कण्डाग्रतः परिसमूहनादिकं कृत्वा, तमग्निं स्थापयेत । तस्मिन्नग्नौ पत्ता, मधमांसादिवर्जितं पृतक्षीरादियुक्तमन्नं पत्न्या सह भुक्तो, नवीने क्षौमे वाससी, अहते वासमी वा, परीधायाग्नेः पश्चाद्यजमानस्तदक्षिणतः पत्नीचेोपविशेत । अहतवासोलक्षणमाइ “शातातपः । ईषहोतं नवं श्वेतं सदशं यन्न धारित। अहतं तद्दिजानीयात्सर्वकर्मसु पावनम्" ॥ अथारण्योलक्षणम् । शमोगाऽशमीगी वा योऽश्वत्यस्तस्य या प्राच्यदीच्यर्ध्वगा वा शाखा तस्या एकस्या एवारणियं कुर्यात् । दक्षिणभागादधरा । उत्तरभागादुत्तरा। For Private And Personal
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy