________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयगृहकर्मप्रकाशिका ।। जङ्घगाया: स्थलत्वेऽधोभागादधरा, उत्तरेणोत्तरा । पूर्वस्याः पश्चिमभागादधरा, पूर्वणो तरा । चतुरङ्गालोच्छिता, चविंशत्यङ्गलदीघी, षडङ्गल विस्तारा, मूलाग्रभागविभिन्नचिन्हयुकाधरारणिः कार्या । एवं विधैवोत्तरा । उत्तरारण्ये कटेनर्मितमष्टाङ्गलमितं मन्यनकाष्ठं, तदेव प्रमन्य इति चोच्यते । चाचं हादशाङ्गलं मन्यनदण्ड इति यावत् । ओविली च दादशाङ्गना । ओविनीगम, मन्यनदण्डस्योपरिभागे यो लोहशङ्कस्तदुपरि स्थापनका उम् । शमिश्रगोवालनिर्मितं विस्तं व्यामप्रमाणं नेत्रं, मन्यनरज्जुरिति यावत् । पात्राणां लक्षणमुक्तं स्थानीपाके । ततो ब्रह्मा, सूर्यास्तमयसमीपे यजमानायोत्तरामरणिं प्रयच्छेदधरारणिं पत्न्यै । ततो निशायामग्निधारणं, दम्पत्याजागरण मन्यगारे शयनं वा । ततेोतीतायां रात्रावग्निमुपशमय्योष:काले नद्यादौ स्नात्वा, वस्त्रादिभिराच्छाद्य शुद्दा अप: प्रोक्षणाद्यर्थमाहरेत्ता अनुगुप्ता भवन्ति । अथ ताभिरभिरग्न्यगारं कण्डं चोपलिप्याग्नेः पश्चिमतः पूर्णाहुत्यनन्तरं क्रियमाणमायंप्रात हामसमाप्तिपर्यन्तं वाग्यतावुपविशेयाताम् । तत्रैवोदितेऽनुदिते वा मन्यनम् । ततो ब्रह्माऽधरारणिमादायाग्नेः पश्चादुगनां निधाय, तत्र देवयोनि कल्पयेत् । “गृह्यासंग्रहे" । 'भूलादष्टाङ्गलं त्यक्ता अग्राच्च हादशाङ्गलम । देवयोनिः स विज्ञेयस्तत्र मन्थ्यो हुताशनः' । देवयानावेव मन्यननियम: प्रथमाधाने, न पुनराधाने । मन्थनरज्ज्वालम्भः पत्न्याः । पत्नीवहुत्वे जन्मतो विवाहत: क्रमेण | सर्वासामालम्भः । मन्थनप्रकार: "कर्मप्रदीपे। 'यजमान: प्राङ्.
For Private And Personal