________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मण्डपपूजादिप्रयोगेमुकामुकशर्मणाममुकगोवाणां नान्दीमुखानाम्मानुः पिवृषितामहमपितामहानाममुकामुकशर्मणां प्रीति कामयमानः तृप्तिभोजनमूल्यचतुर्गणमिदमाग्नेयं हिरण्यं तुभ्यमहं सम्पदद इति दद्यात् । इति हिरण्यश्राद्धप्रयोगः ॥ ।
अथ पुण्याहवाचनप्रयोगः । तस्य सर्वकर्माङ्गत्वं कचियाख्यातम् । आभ्यदयिकश्राद्धाभावेऽपि शरीरशालादि शुद्ध्यर्थं प्रधानत्वमप्यस्ति । अतो गोभिलेन तत्प्रयोगस्यानुक्तत्वेऽप्यावश्यकत्वा"च्छौनकाश्वलायनगृह्यपरिशिष्टा" द्यनुसारेण तत्प्ररोग उच्यते । यजमानः सपत्नीकः सुस्नातो मङ्गलसम्भारं सम्भत्य, स्वलङ्कने गेहे गोमयोपलिप्तायां भूमा भद्रासने प्रामुख उदङ्मुखो वा उपविश्य, शुद्धे स्थण्डिले धान्यपुञ्जोपरि दक्षिणोत्तरयोः सौवर्ण-राजन ताम्र-मृन्मयान्यतमं नूतनं कलशहयं संस्थाप्य, पूजयित्वा, प्रशस्तान् प्रतिवचनसमाश्वचीन्दर्भपवित्रपाणीन्युग्मान्ब्राह्मणानासनेषुपवेश्य, गन्धपुष्पादिभिरभ्यर्च्य, उत्तरकलशे देवता कावाह्य, पुण्याहं वाचयेत् । तद्यथा देशकाला सङ्कीर्त्य, अमुककर्म कर्त्तममुककाङ्गं वा स्वस्तिपुण्याहवाचनं करिष्ये । तवादा निर्विघ्नतासिध्यर्थ महागणपतिपूजनं करिष्ये इति सङ्कल्य पूर्वातप्रकारेण महागणपतिं सम्पूज्य, कलशस्थापनादि कुर्यात् । स्वपुरतः इदम्भूमेरिति भूमिं स्पृष्ट्वा पठेत् । इदम्भमभजामह इदम्भद्रासुमङ्गलम् । परा सपत्नाबाधस्व अन्येषां विन्दते
३.१ २ ३ १.२३ - १२ १ २ ३ १२० धनम् । धानावन्त करम्भिनमपपवंतमुक्थिनम्। इन्द्रप्रातजुषख
For Private And Personal