________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नान्दीश्रादुप्रयोगः |
असोमपाश्चेत्यन्नं विकिरेत् । सोमपाश्च ये देवा यज्ञभागबहिष्कृताः । तेषामन्नं प्रदास्यामि विकिरं वैश्वदेविकम ॥ ततः पूर्वधृतकुशत्याग हस्तप्रक्षालनम् । आचमनं । अन्यकुशधारणम् । ततो ब्राह्मणेभ्यः पितृपूर्वकमुत्तरापोशनार्थमुदकं दत्वा पूर्वाहृत्यादिकं पठित्वा, मधुमधुमध्विति चिर्जपेत् । ततो ब्राह्मणैरुत्तरापोशने कृते सर्वान् सम्पन्नमिति पृच्छेत् । सुसम्पन्नमिति सर्वं ब्रूयुः । ततोऽन्नशेषैः किं ? क्रियतामिति पृच्छेत्। इष्टैस्महेोपभुज्यतामिति प्रत्युक्तिः । तत उच्छिष्टसनिधैौ पिण्डदानम | उच्छिष्टपाचस्य बाहुमाचप्रदेशे चतुरस्वमण्डलं विधाय, गोमयेनोपलिप्य, प्राचीनप्रवणां सैकतेन वेदिकां कृत्वा ऽभ्युक्ष्य, पिचाद्यर्थं प्रागग्रान् कुशानास्तीर्य्य, तदुत्तरभागे मातामहाद्यर्थं तथाग्रान् कुशानास्तीर्य्य, दक्षिणेन पिर्ली गृहीत्वा, पिज्जूल्यग्रेणास्तृतकुशोपरि प्रागग्रां रेखामुल्लिखेन्मन्त्रेण । अपहता असुरा रक्षासि वेदिषदः ॥ एवं मातामचादिदर्भेष्वपि । ततः पिज्जनीं त्यक्ता, अप उपस्पृशेत् । तत एतपितरस्तोम्यास इति पितृनावाचयेत् । तत ऋजुकुशोदकं गृहीत्वा, पाति दक्षिण जानुर्देवतीर्थेन पूर्वभिमुखा मूलमध्याग्रभागेष्वास्तृत कुशेषु क्रमेणावनेजनं कुर्य्यात् । अमुकगोचामुक शर्मन्नान्दीमुख पितरवनेनिंच्च ये चाच त्वाम नु याश्च त्वमनु तस्मै ते स्वाहा | अप उपस्पृश्य पितामह - प्रपितामच्चयोरप्यवनेजनं कुर्यात् । एवं मातामहादीनामपि । ततः सर्वपाकशेषाल्पेन हुतशेषं मिश्रीकृत्य, दधिमधुक्षीरैरु
For Private And Personal
३१