________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयगृह्मकप्रकाशिका । विवाहाहुती: कुर्यात् ॥ द्वितीयपक्षस्वीकारे, दिनीयमेव यवजीवं धारयेत् ॥ तदुक्तं सूत्रकृता । सूत्रम् । “यदेवान्त्यां समिधमभ्यादधाति, जायाया वा पाणिं जिक्षन् जुहोति, तमभिसंयच्छेत् ॥ धारयेदित्यर्थः ॥ “अब केचित । 'अत्र समिदाधानाग्निं वा विवाहाग्निं वा, पूर्णाहुत्या संस्कृत्य धारयेदिति' वदन्ति" तन्न सम्यक, अध्याहार प्रमाणाभावात, उत्तरसूबद्दयविरोधाच । तथाहि सूत्रम् । “स एवास्य गृह्योऽग्निर्भवति” । अस्मार्थः । अस्यान्त्यसमिदाधानानिर्विवाहामिवा, गृह्योऽग्निः, गृह्यामिसंज्ञको भवति, एवकारेण पूर्णाहुत्यादिळावय॑ते । सूत्रम् । “तेन चैवास्य प्रातराहुतिहुंता भवतीति" । अस्यार्थः, तेनैवाद्यपक्षेऽन्त्यसमिदाधानेनैव, द्वितीयपक्षे, लाजादिहोमेनैव वा, अस्याग्ने ह्याग्नेः प्रातराहुतिः, प्रातरौपासनाहुतिर्हता भवति। अत अवं सायमाहुत्युपक्रमं वक्ष्यति, तस्माह्याग्नित्वसिद्धये पूर्णाहुतिसंस्कारकरणे विरोधः स्पष्ट एव। कल्पतरुकारा. दयोप्येवमाहुः । अत्र पक्षहये आधानाङ्गं नान्दीश्राद्धं न पृथक, समावर्तनविवाहाङ्गमेव नान्दीश्राद्धम् । पुनस्तृतीयाधानकानुमाह। सत्रम। "प्रेते वा गृहपता परमेष्टिकरणम" ॥ अस्यार्थः । केनापि निमित्तेनोक्तकालदयेऽप्यकताधानस्य, पितरि मृते, एकादशेऽन्हि परमेष्टिकरणमग्न्याधानं कुर्वीत। पितरि मृते य. दग्न्याधानं, तज्ज्येष्ठस्य। कनिष्ठस्य तु, विभागानन्तरम। उभयसाधारण्येनापरमाधानकालमाह। सूत्रम्। “तथा तिथिनक्षत्र. | पर्वसमवाये। सूत्रम् । “दर्श वा पौर्णमासे वाऽग्निसमाधानं कु
For Private And Personal