________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयकर्मप्रकाशिका |
२३
I
सादनम् । चिरुदकाज्ञ्जलिसेचनम् । पर्य्युक्षणम् । श्राज्यभागहोमः । प्रधानचरु होमः । स्विष्टकृडोमः । व्याहृतिचयहोम: । तूष्णीं समिदाधानम् । अनुपर्य्यक्षणम् । उदकाञ्जलिसेचनम् । यज्ञवास्तुकरणम् । वस्वाचुतिः । हविरुच्छिष्टोदासनम् । ब्रह्मणे चविश्शेषदानम् । हविश्शेषभोजनम् । पूर्णपाचदानम् । गोनिष्क्रयद्रव्यदानम् । चमसनिनयनम् । चमसपूरणम् । वामदेव्यसामगानम् ॥ इति चरुतन्त्रपदार्थक्रमः ॥ थाज्यपदार्थक्रम उच्यते । हविर्निर्वापादिविरुद्दासना. तं कर्म विद्यायाग्निस्थापनप्रभृत्याज्यासादनान्तपदार्थक्रमः पूर्ववत् । ततस्त्रिरुदकाञ्जलिसेचनम् । अनुपर्य्यक्षणम् । व्याहृतित्रय होम: । प्रधानाज्याहुतयः । प्रधानाज्याहुत्यनुपदेशे, प्रधानकर्मानुष्ठानम् । आज्येन व्याहृतिचय होमः । तूष्णीं समिदाधानम् । कर्मवैगुण्ये, पुनर्व्याहृतिचतुष्टयचेामः । पर्य्युक्षणादिवामदेव्यगानान्तं पदार्थक्रमः पूर्ववत् । इत्याज्यतन्त्रपदार्यक्रमः ॥ इति गोभिलगृह्यसूत्रे प्रथमप्रपाठकः ॥
अथाधानमुच्यते ॥ आधानं द्विविधम् ॥ अवधानं, विच्छिन्नधानं चेति । तत्रद्यस्य कालमाच सूचकारः । सूत्रम् । "ब्रह्मचारी वेदमधीत्यान्त्यां समिधमभ्याधास्यन् । जायाया वा पाणिं जिष्टक्षन्” ॥ अत्रेदं तात्पर्य्यम् । विवाहात्पूर्वं ब्रह्मचारी अन्त्य समिदाधानं करिष्यन् यदाऽग्निं प्रणयति, स एकः कालः । अथवा, विवाह हामार्थं यदाऽग्निं प्रणयति, सचापरः कालः । अत्राद्यपतस्वीकारे, आद्यमेवाग्निं यावज्जीवं धारयेत् । तचैव
For Private And Personal