SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४ मण्डप पूजादिप्रयोगे - 1 निर्मााणे प्रत्पूर्वदिने वास्तुशान्तिं कुर्यात् । देवताप्रतिष्ठादिषु, विवाहादिमङ्गलकार्येषु च, वास्तुशान्तिः कर्त्तव्येति क्वचित्पुराणेषु तत्त्रेषु च श्रूयते । विवाचादिषु मातृकापूजनदिवसात्पूर्वं कस्मिंश्चिच्छुभे दिने पूजन होमबल्यात्मिका वास्तुशान्तिविस्तरेण कर्त्तव्या । अथवा, वास्तुमण्डले शिख्यादिदेवतापूजनमाचं वा । अत्र तु देवतापूजनमाचं लिख्यते । अथ गृहे विवाहमण्डपे वा, ऐशान्यां चतुरङ्गलेोच्छितामेकहmayeri वा वैदिकां निमय, गोमयेनोपलिप्य, तत्र बास्तुपीठं संस्थाय्य, तच कुङ्कुमादिना सुवर्णरजता न्यतमशaraया नैर्ऋतीमारभ्याग्नेयी पर्य्यन्तामेकां रेखामालिख्य, तत उत्तरं पश्चिममारभ्य प्रागायता अङ्गुलियान्तराला अङ्गुलिचतुष्टयान्तराना, अङ्गुल्यन्तराला वा, नव रेखाः समालिखेत् । एवं प्रागायता दशरेखाःसम्पन्नाः । ततो नैर्ऋतीमारभ्योदगायतां वायव्यान्तामेकां रेखामालिख्य ततो दक्षिणमारभ्योदगायता नव तिर्यग्रेखास्तमालिखेत् । एवमेकाशीतिकोष्ठात्मकं वास्तुमण्डलं भवेत् । रेखाक्रमेण प्रागायतासु दशसु रेखासु शान्तादिदेवता नमोन्तेन चतुर्थ्यन्तेन वा तत्तन्नाम्ना पूजनीयाः । ताश्च देवताः । शान्ता १ यशोवती २ कान्ता ३ विमला ४ प्राणवाहिनी ५ सती ६ सुमती ७ नन्दा ८ सुभद्रा सुमुखा १० | एवं लेखनक्रमेणोदगायतासु दशसु रेखासु दश देवताः पूजनीयाः । ताश्च देवताः । हिरण्या १ सुव्रता २ लक्ष्मी: ३ विभूति: ४ विमला ५ प्रिया ६ जया ७ ज्वाला ८ Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy