________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३४
एकोद्दिष्टश्राद्धप्रयेोगः | उपस्पृश्य, पिण्डपाच क्षालनजलेन पूर्ववत्प्रत्यवनेजनं कृत्वा, पिण्डपाचमधोमुखं स्थापयेत् । ततोऽच पितमादयस्वेति जपति । अस्य मन्त्रस्य प्रजापतिषिर्यजुः पिता देवता जपे विनियोगः । च पितमादयस्व यथाभागमानुषायिष्ट । प्रादक्षिण्येन पर्य्यादृत्योदङ्मुखोऽनुच्छसन्नमीमदत पितेति जपेत । अस्य मन्त्रस्य प्रजापतिषिर्यजुः पिता देवता जपे वि नियोगः । मीमदत पिता यथाभागमादृषादिष्ट ॥ ततः कृता. ञ्जलिर्नमस्ते पितः पितरिति जपति । अस्य प्रजापतिर्ऋषिर्य - जुरु ष्णिक छन्दः पिता देवता जपे विनियोगः । नमस्ते पितः पितर्नमस्ते ॥ ततः पत्नीमवेक्षते । अस्य मन्त्रस्य प्रजापतिर्ऋषियजु: पिता देवता पत्न्यवेक्षणे विनियोगः । गृहान्नः पितरो दत्त ॥ ततः पिण्डमवेक्षते | अस्य मन्त्रस्य प्रजापतिर्ऋषिर्यजुः पिता देवता पिण्डावेक्षणे विनियोगः । सदो वः पितरो देष्म ॥ ततः सव्येन चस्तेन पूर्वसादितसूचं गृहीत्वा, दक्षिणेनादाय, वामेनान्यारभ्य, पितृतीर्थेन पिण्डे निदध्यात् । अमुकगोच पितरमुकशर्म्मन्नेतत्ते वासः ये चात्र त्वामनु याश्श्च त्वमनु तस्मै ते स्वधा ॥ तत अप उपस्पृश्य यथाचारं गन्ध-पुष्प-धप-दीपनैवेद्यादिभिः पिण्डपूजनम् । ततो भाले मुखहस्तप्रक्षालना। द्यर्थमुदकं दत्वा स्वयं हस्तौ प्रक्षाल्याचामेत् । अथाचान्ते भातरि सव्येन सुसं प्रोक्षितमस्त्विति द्विजाग्रभूमिं जलेना सिच्छेत् । अस्त्विति प्रतिवचनम | शिवा आपः सन्त्विति द्विजहस्ते जल प्रयच्छेत् । सैामनस्यमस्त्विति भोक्तृचस्ते कुसुमानि । अक्षतं
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal