________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
एकोद्विष्टादुप्रयोगः । इष्टैः सह भुज्यतामिति प्रत्युक्ते ब्राह्मणभोजनार्थपाकादन्नमइत्याच्छिष्टसन्निधौ पिचे पिण्डं दद्यात् । तद्यथा । प्राचीनावीती वाग्यतो यजमान उच्छिष्टपात्रस्य बाहुमात्रप्रदेशे चतुरस्र मण्डलं विधाय, गोमयेनोपलिप्य, दक्षिणाप्रवणां सैकतेन वेदिकां कृत्वाऽभ्युक्ष्य दक्षिणायान्कशानास्तीर्य सव्येन पिङ्गली गृहीत्वा, सयादक्षिणेन गृहीत्वा, पिचल्यग्रेणास्तृतकशोपरि दक्षिणायां रेखामुलिखेदपहता इतिमन्त्रेण । अस्य प्रजापतिषियजुः पितरो देवता रेखोल्लेखने विनियोगः । अपहता असुरा रक्षासि वेदिषदः ॥ ततः पिङ्ग्लीं त्यक्त्वाऽप उपस्पृशेत् । अथेत पितरः सौम्यास इतिमन्त्रेण पितरमावाहयेत । अस्य मन्त्रस्य प्रजापतिषिः विष्टपछन्दः पितरो देवता पित्रावाहने विनियोगः । एत पितरस्मोम्यासो गम्भीरेभिः पथिभिः पविणेभिः । दत्तासमभ्यं द्रविणेह भद्र रयिञ्च नः सर्ववीरं नियच्छत ॥ ततो द्विगुणकशजलमादाय प्राचीनावीती सव्यं जान्वाच्य, पितृतीर्थन कुशोपरि माजनं कुर्यात् । अमुकगोत्र पितरमुकशर्मन् पिण्डस्थानेऽवनेनित्व ये चात्र त्वामनु याश्च त्वमनु तस्मै ते स्वधा । अप उपस्पृशेत । तत: सर्वपाकाल्पनानं तच्च मिश्रीकृत्य, तिलान्संयोज्य बिल्वमा पिण्डं कृत्वा दक्षिणह. स्तेन गृहीत्वा, सत्येनान्वारभ्य, पितृतीर्थनावनेजनस्थाने पिण्ड निदध्यात्पितनामयुक्तमन्त्रेण । अमुकगोत्र पितरमुकशर्मन्नेष ते पिण्डः ये चाव त्वामनु याश्च त्वमनु तस्मै ते स्वधा ॥ अप
For Private And Personal