________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२२
एकोद्दिष्टश्राद्धप्रयोगः । वामहस्तेन तिलोदकमादाय, इदमन्नं व्यञ्जनादिसहितमातृप्तेर्दत्तं दास्यमानञ्च, गोचाय पित्रे ऽमुकशर्मणे स्वधा इत्यन्नसङ्कल्पं कृत्वा, पर्वापोशनार्थमदकं दत्वा, सव्याहृतिका गायची, मधुवाता ऋतायत इति, मधुमधुमधु इति च, चिर्जपित्वा यथा सुखं जुषस्वेति वदेत् । ॐ भूर्भुवःस्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥ मधु वाता कतायते मधु क्षरन्ति सिन्धवः । माध्वीनः सन्त्वोषधीः ॥ मधुनक्तमुतोषसि मधुमत्पार्थिवरजः । मधु द्यौरस्तु नः पिता । मधुमान्नो वनस्पतिर्मधुमा अस्तु सूर्यः । माध्वीगा। भवन्त नः ॥ मधुमधमधु इति । ततो ब्राह्मणस्य पूर्वापोशने प्राणाहुतिष च तत्समकालं तान्मन्त्राक्रमेण सहदेव पठेत । अमृतोपस्तरणमसि । प्राणाय स्वाहा । व्यानाय स्वाहा । अपानाय खाहा । समानाय स्वाहा । उदानाय स्वाहा । ब्रह्मणे स्वाहा । ततो ब्राह्मणभोजनकाले मासश्राद्धोक्तानि सामानि पठेत्पाठयेद्दा। भोजनान्ते पितुरुच्छिष्टस्य पुरतश्चतुरङ्गलदेशे दीनास्तीर्य, प्रत्यगपवर्गमपो निनीय, तब ये त्वग्निदग्धा इति मन्त्रेण पितृतीर्थन तिलमिश्रितमन्नं विकिरेत् । ये त्वग्निदग्धा जीवा ये ऽप्यदग्धाः कुले मम । भूमी दत्तेन तृप्यन्तु तृप्ता यान्त परां गतिम् ॥ हस्तौ प्रक्षाल्याचम्योत्तरापोशनं दत्वा सव्याहृतिकां गायत्री मधुवाता चटतायत इति मधुमधुमधु इति च पूर्ववज्जपेत् । तप्ताः स्थ इत्यस्य स्थाने स्वदितमिति पृच्छेत् । अस्तु खदितमिति प्रत्यक्ते । अन्नशेषैः किं? क्रियतामित्यक्ते
-
For Private And Personal