________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
एकादिष्टवादप्रयोगः। मर्थपाने निधाय, तदयंपाचं श्राद्धदेशात्याच्यां दिशि स्ववामभागे दक्षिणायदभापरि दक्षिणाग्रं न्युनीकरोति शुधन्तां लोका इतिमन्त्रेण । शुन्धन्तां लोकाः पितृषदनाः पितृषदनमसि पितृभ्यः स्थानमसि ॥ तत्पवित्र तत्कशांश्च तदुपरि स्थापयेत् । ततो ब्राह्मणाय गन्ध-पुष्य-धूप-दीप-वासा-यज्ञोपवीतानां सम्प्र. दानम् । वस्त्राभावे यज्ञोपवीनं हिरण्यञ्च दद्यात् । तद्यथा । अमकगोत्र पितरमकशर्मन्नेष ते गन्धः । एवमेतत्ते पुष्यम् । एष ते धपः । एष ते दीपः । एतत्ते वासः । एतत्ते यज्ञोपवीतम् । एतत्ते हिरण्यम् ॥ नाग्नी करणमेकोद्दिष्टे तनिषेधात् ॥ ततो भाजनादेशमुपलिप्तमपि पुनर्गामयेनोपलिप्य, नीवारचूर्णेन. पाषाणचूर्णन वा मण्डलं कृत्वा, तत्र प्रक्षालितपात्रं स्थापयेत् । ततो भोजनपाचमाज्येनाभिघार्य कती पत्नी वा यथाविधिपरिवेषणं कुर्यात् । ततो भोजनपात्र वामहस्तेन स्पृष्ट्वा, सव्यञ्जान्वाच्य, दक्षिणहस्तेनोदकमादाय, ॐ भर्भवस्स्वः सत्यन्त्वर्तन परिषिञ्चामीत्यन्नं प्रोक्ष्य, परितस्तिलान्विकीर्य, सव्योत्तराभ्यां पाणिभ्यां पृथिवी ते पात्रमितिभोजनपाचमालभ्य जपेत् । पृथिवी ते पाचं द्यौरभिधानं ब्राह्मणस्य मुखे अमृते अमृतं जुहामि स्वाहा ॥ तत इदं विष्णुर्वि चक्रम इतिऋचा विष्णो हव्यं रक्षस्वेति यजुषा वा भोक्तरङ्गष्ठमन्ने स्थापयेत् । इदं विष्णुरिति काण्वो मेधातिथिरी षिर्गायची छन्दो विष्णुर्देवता अपे विनियोगः । ॐ इर्द विष्णुर्विचक्रमे चेधा निदधे पदं । समूढमस्य पाश्सुले॥ इतिभोक्तरङ्गष्टमन्नेऽवधाय,
For Private And Personal