________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयगृह्मकर्मप्रकाशिका । मदीयगृह्याग्नेरन्याग्निसंसर्गप्रायश्चित्तार्थं विविचिस्थालीपाकं करिष्ये । अग्नये विविचये त्वा जुष्टन्निपामीति चरूनिवर्वापः । अग्नये विविचये स्वाहेति चरु होमः । अन्यत्सवं प्रकृतिवत् ॥ समानतन्त्रपक्षे, वैकृतन्निरूप्य प्राकृतस्य निवीपः । प्रायश्चित्तस्थालीपाककरणेऽशक्ती, चतुर्ग्रहीतेनाज्येन खुचं पूरयित्वाऽमुकस्थालीपाकस्य स्थाने पूर्णाहुति हाष्यामीति संकल्याग्नये वैश्वानराय स्वाहेति चतुर्ग्रहीनमाज्यं जुहुयात् । तत्तत्स्थालीपाके तत्तद्देवतानाम्नि चतुर्थ्यन्ते स्वाहाकारं संयोज्य, पूर्णाहुति जुहुयात् । अथवा, चतुर्ग्रहीताज्यासंभवे स्ववेणैकामाज्याहुति तत्तद्देवतायै जुहुयात् । अमुकस्थालीपाकस्य स्थाने सवाहुति होण्यामीति संकल्पः ॥ अन्यदप्यनुक्तप्रायश्चित्तं सूत्रान्तरोक्तं ग्राह्यं छन्दोगैः ॥ प्रासङ्गिकमुत्वाऽथ गोभिलो. तमुच्यते ॥ यजमानस्य यदि प्रवासस्तदा, पत्न्या ऋत्विमुखेन सायंप्रातहीम-वैश्वदेव-पार्वणस्थालीपाक-श्रवणाकर्म-नवयज्ञादीनिनित्यकर्माणि, यथाकालं कर्तव्यान्येव । संकल्प ऋत्विग्वरणञ्च, पत्न्या कार्यम् । बर्हिरिमादिसाधनयुक्ततन्त्र होमेषु स्थालीपाकवत्सर्वमङ्गजातं कर्त्तव्यं, प्रधानाहुतयस्तत्र तत्रोक्ता ग्रायाः । यत्र मन्त्रान्ते स्वाहेति पदन्नास्ति, तत्र स्वाहेति योजनीयम् । सर्वत्र स्वाहाकारे होमः । यत्र मन्त्रादौ स्वाहाकार आम्नातस्तत्र स्वाहापदोच्चारणे हत्वा, शेषं मन्त्रं समापयेत् । चारहितेष्वाज्यहोमेषु चतुर्थीहोमादिषपघातं जुळ्यात। नचायंक्रमः । आज्यं संस्कृत्य सुवेणाज्यमादाय प्रधानदेवता.
For Private And Personal