________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२०
गोभिलीयगृह्मकर्मप्रकाशिका |
1
1
कर्त्तव्यम् । अथ परिशिष्टोक्तप्रायश्चित्तान्युच्यन्ते । दर्शस्थालीपाके स्वकालेऽननुष्ठिते, प्रायश्चित्तपूर्वक मनुष्ठानं पैौर्णमासीपर्य्यन्तम् । पैौर्णमासस्थालीपाके स्वकालेऽननुष्ठिते प्रायश्चित्त पूर्वकमनुष्ठानं दर्शपर्यन्तम् । तृतीया पञ्चमी - दशमी - चयोदशीषथवा, सर्व तु तिथिष्वतीतस्य स्थालीपाकस्यानुष्ठानम् । गौणकालेप्यतीते वैश्वानरस्थालीपाकः प्रकृतिस्थालीपाकेन समानतन्त्रेण, भिन्नतन्त्रेण वा कर्त्तव्यः । दयेो: स्थालीपाकयालापे, एकस्योक्तप्रायश्चित्तस्थालीपाकः । द्वितीयस्य प्रायश्चित्तपूर्वकं गौणकालेऽनुष्ठानम् । द्वितीयस्थालीपाके गौण का लेप्यननुष्ठिते, तृतीयस्थालीपाके संप्राप्ते, पुनराधानम् ॥ अन्वाधानदिने पत्न्यां रजस्व - लायां स्नातायां, पञ्चमेऽहनि स्थालीपाकानुष्ठानम् । श्रौते कर्मणि, चतुर्थदिनेऽपि ॥ “परे तु 'अन्वाधानदिने औपवसयिकान्नभोजनानन्तरं पत्न्यो रजस्वलायान्तामपरुध्य यागः कर्त्तव्य" इति । “केचित्संकल्पप्रभृतिपाचासादनान्ते कर्मणि कृते, भोजनात्पूर्वं पत्न्यां रजस्वलायामपि तामपरुध्य यागं कुर्वन्ति” ॥ अथ वैश्वानरस्थालीपाकप्रयोग: ॥ दर्शस्थान्नीपाकस्य पौर्णमासस्थालीपाकस्य वाऽतिपत्तिप्रायश्चित्तार्थं अथवा मुख्यकालातिपत्तिप्रायश्चित्तार्थं, वैश्वानर स्थालीपाकं करिष्ये इति संकल्पः । अग्नये वैश्वानराय त्वा जुष्टन्निर्वपामीति निर्वाप: । अग्नये वैश्वानराय स्वाहेति वहुतिः । अन्यत्सर्वं प्रकृतिस्थालीपाकवत् । नवयज्ञ - श्रवणाकर्मी श्वयुजि वैश्वदेवदय-पिण्डपितृयज्ञकर्मणां लोपे, पतितान्न भोजने च वैश्वानरस्थालीपाकप्रायश्चित्तम् । स्वग्टच्ह्याग्नेरन्याग्निसंपर्क विवि चिस्थालीपाकः ।
"
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal