________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१४
मासश्राद्धप्रयोगः ।
रेखामुल्लिखेद पता इतिमन्त्रेण । श्रस्य प्रजापतिषिर्यजुः पितरो देवता रेखालेखने, विनियोगः । अपहता असुरा रक्षासि वेदिषदः । एवं मातामचादिदर्भेष्वपि । ततः पिञ्जलीं त्यक्वा अप उपस्पृशेत् । अथ एत पितरः सोम्यास इतिमन्त्रेण पितॄनावाहयेत् । ततो हिगुणकुशजलमादाय प्राचीनावीती सव्यं जान्वाच्य, पितृतीर्थेन कुशमूलमध्याग्रभागेषु क्रमेणावनेजनं कुर्यात् । अमुकगोचामुकन्पितः पिण्डस्थानेऽवनेनिक्ष्व ये चाच त्वामनु याश्च त्वमनु तस्मै ते स्वधा । अप उपस्पृशेत् । एवं पितामहप्रपितामच्दयोः । एवं मातामहादीनामपि । ततः सर्वपाकाल्पेन हुतशेषं घृतश्च मिश्रीकृत्य, विनान्संयोज्य, बिल्वमात्रान्पिण्डान् कृत्वा, दक्षिणहस्तेन गृहीत्वा, सव्येनान्वारभ्य, पितृतीर्थ नावनेजनक्रमेण पिण्डान्निदध्यात्पितुन्नीमयुक्तमन्त्रेण । अमुकगोचा मुकशम्पितरेष ते पिण्ड: ये चाच त्वामनु याश्च त्वमनु तस्मै ते स्वधा । अप उपस्पृश्य एवं पितामहप्रपितामचयेोः पिण्ड । क्रमेण स्थापयेत् । पिण्डदानमन्त्रे तत्तन्नामग्रहणमिति विशेषः । ततो मातामहादीनामपि तत्तत्स्थाने पिण्डनिधानम् । पिण्डपाचचालनअलेन प्रत्यवनेजनं कृत्वा पिण्डपाचमधोमुखं स्थापयेत् । ततोऽच पितरो मादयध्वमिति जपति । अस्य मन्त्रस्य प्रजापतिर्ऋषिर्यजुः पितरो देवता जपे विनियोगः । अत्र पितरो मादयध्वं यथा भागमान्नृपायध्वम् ॥ अप्रादक्षिण्येन पर्यावृत्योदङ्मुखो दक्षिणाभिमुखा वा ऽनुच्छमन्नमीमदन्त पितर इति जपेत् ।
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal