________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयगृह्मकर्मप्रकाशिका । अस्यार्थः ॥ तत एवास्तृतादेव बहिष इति, एवकारात आस्तर. णकालशेषकशादिकं व्यावय॑ते । आस्तृतदीणां प्रतिपत्तेविवक्षितत्वादस्य प्रतिपत्तिकर्मरूपत्वाच । “श्रौते” दर्शपूर्णमासप्रकरणे प्रस्तरसमभ्यञ्जन-प्रस्तरप्रहारवत् । ननु, “स्तृतेभ्यो न प्रचिनुयाद्यातयामं स्तृतं स्मतम्। स्तृतशेषात्ततो गृह्ययज्ञवास्तुक्रिया तथेति” गृह्यासंग्रहवचनात्तत एव बहिष इत्यस्यास्टतशेषादिति व्याख्यातमचितत्वेन न प्रतिपत्तिरूपमिदं कर्मेति चेन्न, सूचे "तत एवेति” नियमवैय्यांपत्तेः । प्रतिपत्तिप्रायवचनविरोधादुदाहृतगृह्यासंग्रहवचनस्यान्यथा-नयनस्यापि सुवचत्वात कथ? मन्यथानयनमिति चेदित्यम, स्तुतेभ्यो न प्रचिनुयात्तेषां यातयामत्वात, अन्यत्र वर्जित्वावगतेश्च, निषेधोऽयं सार्वत्रिकः । प्रकृते तु, प्रत्तिपत्तिरूपत्वात्स्तृतदर्भाणां शेषमेकदेशं गृहीत्वा, नन स्तरणशेषम ॥ अथ सत्रोक्तमृत्विक-संख्या दक्षिणादानादिकमुच्यते॥ पार्वणस्थालीपाक-श्रवणाकाऽश्वयुजि-कर्म-नवयज्ञा-ग्रहायणीकाष्टकाचतुष्टयेषु पाकयज्ञनामकेघेको ब्रह्मैवविक्, यजमानो होमकता । यजमानस्य प्रवासेऽन्यापि होमकती। पाकयज्ञेष पर्णपात्रमधमदक्षिणा । अपरिमित मापराड्यं गाव उत्तमदक्षिणा। अतिहासोऽपिप्रमाणम् । "नामतः सुदाःपिजवनपुत्र: पैजवन ऋषिनवयन्ने लक्षं गा दत्तवानिति” । ब्रह्मा भाचियो वशिष्ठगोत्रजो वेदत्रयप्रयोगज्ञानवान । वशिष्ठाभावेऽन्यगोरजोऽपि, यजमानशाखाध्यायी वा परिग्राह्यः । सायंप्रातहीम-वैश्वदेव-दर्शपौर्णमासस्थालीपाका
For Private And Personal