________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
गोभिलीयकर्मप्रकाशिका |
૧૭
रुपस्तरणाभिघारणप्रत्यभ्यञ्जनानां विष्टकृतश्च प्रतिषेधः ॥ “उक्तं गृह्यासङ्ग्रहे” ॥ 'पाणिना मेक्षणेनापि स्रुवेणैव च यइविः । हूयते चानुपस्तीर्ण उपघातस्स उच्यते ॥ उपघातञ्च जुहुयात्तत्रैवाज्यं समापयेत् । मेक्षणेन तु होतव्यन्नाज्यभागौ न स्विष्टकृत्' । स्पष्टच्वेदन्नारायणीये भाष्ये ॥ उपस्तीर्णाभिघारितस्य लक्षणमाच गोभिलः । सूत्रम् । “यद्युत्रेोपस्तीर्णीभिघारितं जुहुषेत्” ॥ अस्यार्थः । उपस्तीर्णाभिघारितं सुच्याज्यमुपस्तीर्य यथोक्तं हविरादाय पुनराज्येनाभिघार्य्य यडूयते तदुपस्तीर्णाभिघारितसंज्ञकं, तथा वा जुहुयात् । उपघातापस्तीर्णाभिघारितामयोर्विकल्प ऐच्छिक उत व्यवस्थित इत्यचैच्छिक इति केचित् । कर्म्मभेदाद्यवस्थित इत्यन्ये ॥ अथ षष्ठोविचारः ॥ “केचित्तु ‘स्विष्टकृतः प्राक् व्यस्त समस्त व्याहृतिभिराज्येन चतस्रो होतव्या' इति वदन्ति तदसङ्गतम्, तासामप्रधानत्वात्, आवापत्वाभावाच्च । प्रायश्चित्तार्थत्वे, “चागन्तुका नामन्ते संनिवेश” इति न्यायेन कर्मसमाप्तिविचितसमिदाधानात्परं प्रायश्चित्ताहुतीनां कर्त्तव्यत्वावगमाच्च । कर्मान्तेऽपि arai fraल्प एवेत्यन्ये ॥ अथ सप्तमविचारः ॥ यज्ञवास्तुकर्मणि, आस्तृतबर्हिर्मुष्टिमादाय यज्ञवास्तु कुर्वन्ति । परे तु, स्तरणकाले यज्ञवास्त्वर्थं कुशान् शेषयित्वा, पश्चाद्यज्ञवास्तुकाले आस्तृतशेषादर्हिषः कुशमुष्टिं गृहीत्वा यज्ञवास्तु कुर्वन्ति । अत्राद्यपक्षो ज्यायान् । तदुक्तङ्ग मिलाचाय्यैः ॥ “तत एवं बर्हिषः कुशमुष्टिमादायाज्य वा चविधि वा विवध्यदित्यादि
1
2
t
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal
-