________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
-
१६
गोभिलीयएमकर्मप्रकाशिका ।
तत्यक्षेगृहासङ्ग्रहे । “उदग्धारामविच्छिन्नामाग्न्यमारभ्य दक्षिणाम् । दद्याब्रह्मासनस्थाने सर्वकर्मसु नित्यशः” इत्यस्मिन्वचने ब्रह्माऽऽसनस्थाने स्वासनस्थाने उदकधारां दद्यादित्यर्थः ॥ यजमा नकर्त्तकत्वपक्ष, यजमानो ब्रह्मासनस्थाने उदकधारां दद्यादिति योजनीयम् ॥ अथ तृतीयविचारः ॥ नन्वाज्य. संस्कारे पवित्रकरणं सूत्रकृटुक्तं तच्चात्र स्थाल्यां तण्डुलावापात्पूर्व कथ?मभिहितमितिचेन्न, “पवित्रान्तहितान्तण्डुलानावपेत्” इति पवित्र विधानप्रतीतेः, अत्र पवित्रकरणप्रयोगानुक्तावपि वक्ष्यमाणप्रयोगस्याचापकर्षात। नचाच भिन्नपवित्रं विधीयते इतिवाच्यम्, पवित्रदयविधाने गौरवादभयार्थ पूर्वकृतस्याज्यसंस्कारार्थस्थापनसम्भवात् तस्मागुणभूतपाठक्रममनाहत्यतण्डुलावपात्पूर्व पवित्रकरणं युक्तम् । चहरहितेषु केवलाज्यहोमे धाज्यसंस्कारार्थमिध्नमाधानात्परमेव पवित्रकरण मितिविवेकः। अथ चतुर्थविचारः ॥आज्यप्रतिनिधित्वेन यवागूपरिग्रहे,यवाम्बा नाधिश्रयणम, "न तस्य करणम्भवेत" इति गृह्यासङग्रहाक्तः । "अनधिश्रयणं दनः शेषाणां श्रपणं स्मृत” इत्यत्र दधिपदं यवाग्वा उपलक्षकम। यवाग्वास्तु विकल्प' इति भदृभाष्ये ॥ अथ पञ्च. मविचारः ॥ अग्निपर्युक्षणानन्तरमुपघातविधिमाह सूत्रकार। सूत्रम् । “पर्युक्ष्य स्थालीपाक आज्यमानीय मेक्षणेनोपघातं होतुमेवोपक्रमते” ॥ अस्यार्थः ॥ अग्निं पर्यक्ष्य, स्थानीपाके
आज्यमानीयावसिच्य, मेक्षणेन चरुमुपश्त्यावदाय, हातुमेवोपक्रमते प्रारभते होममेव कादित्यर्थः । एवकारेणाज्यभागयो
For Private And Personal