SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नित्याह्निकप्रयोग: । ४३ न मम । नये स्विष्टकृते स्वाहा । अग्नये स्विष्टकृत इदं न मम । ततस्तूष्णीं समिधमाधाय पर्युचणादि चमसपूरणान्तं कर्म प्रिहोमविधिना कुर्य्यात् । ततो हुतशेषेणाग्नेः पश्चाद्भागे बलिचरणं कुर्य्यात् । पश्चिमभागे प्रागपवर्गमप निनीय, बलिचतुष्टयपर्याप्तमन्नं सहदेव ग्टहीत्वा, प्रागपवर्गश्चतुरो बलीन्निदध्यात् । यथा । पृथिव्यै नमः । पृथिव्या इदं न मम | वायवे नमः | वायव इदं न मम । विश्वेभ्यो देवेभ्यो नमः । विवेभ्यो देवेभ्य इदं न मम । प्रजापतये नमः । प्रजापतय इदं न मम । चतुर्षु पुनः पूर्वज्जलप्रक्षेपः । ततः पूर्ववत्स्थापित बलितुष्टयस्योत्तरत अपो निनीय, पूर्ववदन्नमादाय, अद्द्भ्यो नमः । अद्भ्य इदं न मम । ओषधिवनस्पतिभ्यो नमः | ओषधिवनस्पतिभ्य इदं न मम । आकाशाय नमः । आकाशायेदं न मम । कामाय नमः । कामायेदं न मम । इति बलिचतुष्टयं दत्वा पूर्ववदुपरि जलं प्रक्षिपेत् । ततस्तेषामुत्तरत अपो निनीय, पूर्ववदन्नमादाय, मन्यवे नमः । मन्यव इदं न मम । इन्द्राय नमः | इन्द्रायेदं न मम । वासुकये नमः । वासुकय इदं न मम । ब्रह्मणे नमः । ब्रह्मण इदं न मम । इति बलिचतुष्टयं दत्वा तदुपरिपूर्ववज्जलं प्रक्षिपेत् । तेषामुत्तरत अपोनिनीय रक्षोजनेभ्यो नम इति बलिं दत्वा पूर्ववज्जलं क्षिपेत् ॥ रक्षोजनेभ्य इदं न मम । अप उपस्पृश्य पूर्ववत्सर्वबलीनां दक्षिपातः पितृतीर्थनापो निनीय, बलिशेषमुदकेनाशाव्य, प्राचीनाatit पातितवामजानु: पितृतीर्थेन पितृभ्यः स्वधेति बलिं दद्यात् । For Private And Personal
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy