________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४२
नित्याहिक प्रयोगः ।
प्रथमदिने यथाशक्ति वेदादिमारभ्य किञ्चित्पठित्वा पुनः प्रणवव्याहृती: पूर्ववत्साविचीं चिः पठित्वा, नमो ब्रह्मण इति चिवारं पठित्वा समापयेत् । एवं विधिना वेदजपो ब्रह्मयज्ञः । एते च नियमा नारदशिक्षायां द्रष्टव्याः । द्वितीयदिने ब्रह्मयज्ञे प्रथमदिनपठितवेदभागोपरितनग्रन्थमारभ्य पाठ: । वेदसमाप्त पुनर्वेदादिमारभ्य पाठः । इति ब्रह्मयज्ञप्रयोगः ॥
|
अथ महायज्ञप्रयोगाः ॥ ते च पश्च- ब्रह्मयज्ञः, पितृयज्ञेो देवयज्ञो, भूतयज्ञो मनुष्ययज्ञश्चेति । ब्रह्मयज्ञस्तूतः । पितृयज्ञोनाम तर्पणं श्राद्धं वा, पिच्या बल्लिवा । भूतेभ्यो बलिर्भूतयज्ञः । श्रतिथिपूजनं मनुष्ययज्ञः । स्पष्टमेतत्कर्मप्रदीपे' | प्रायशो वैश्वदेवे दैविको होमो देवयज्ञः, भूतेभ्यो बलिहरणं, पैतृको बलिश्चात्येव । अतो वैश्वदेवप्रयोगो गोभिलानुसारेणोच्यते । मध्यान्हे पत्न्या अन्यया वा पाके कृते दर्भेष्ठासीन: प्रामुख गृहपतिर्देशकालो सङ्कीर्त्य पश्वसूनाघनिईरणद्दाराऽऽत्मसंस्कारार्थं प्रातर्वैश्वदेवं करिष्ये इति सङ्कल्य लौकिकाग्निश्चेद्दिधिवत्स्थण्डिले प्रतिष्ठापयेत् । गृह्याग्निश्चेन्न संस्कारः । ततः शुचिभतां पत्नीमन्यां वा भूतमिति वाचयित्वा, तदन्नं समिद्दयं चमसं चाग्नेः पश्चात संस्थाप्य, गृहपतिरोमित्युच्चैरुच्चार्य्य, तस्मै नमस्तन्माख्या इत्युपांशु प्रतिजपति । ततो ऽग्निमुपसमाधाय, तूष्णीं परिसमूह्योदकाञ्जलिचयमे चनं पर्य्यक्षणं च कृत्वा समिधमाधायान्नं प्रोक्ष्य दविष्यैर्व्यञ्जनैरुपसिच्य प्रजापतये स्वाहेति मनसैौचार्य मध्ये जुहोति । प्रजापतय इदं
I
"
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal