________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नित्याहिकप्रयोगः । चेहक्षिणाभिमुख ऊर्ध्वमधश्च वायग्निविप्रादित्यजलादीननवलोकयन् वाग्यतः पुरीषं केवलमूत्रवाविसृजेत्। अन्धकारे रात्री वा भये समुत्पन्ने च नोक्तदेशनियमः ॥ ततो मृदा जलेन च शौचं कुर्यात् । “तदुक्तं 'मनुना'-एका लिङ्गे गुदे तिसस्तथैकत्र करे दश । उभयोः सप्त दातव्या मृदश्शुद्धिमभीमता" ॥ "शौचक्रममाह 'आश्वलायन:'-लिङ्गशौचं पुरा कृत्वा गुदशौचं ततः परम्” ॥ "गण्डूषसङ्ख्यामाह 'आश्वलायन:'-कुर्याहादश गण्डषान्पुरीपोत्सर्जने ततः । मूत्रोत्सर्ग तु चत्वारि भोजनान्ते तु षोडश । भक्ष्यभोज्यावसाने तु गण्डूषं टेकमाचरेत् ॥ __अथाचमनविधिः । तत्र पादौ हस्तौ च प्रक्षाल्यान्तीनुकरस्त्रिवारं माषमग्नमुदकं ब्रह्मतीर्थन पीत्वा, सलोमोष्ठौ हिरङ्गष्ठमूलेन परिमृज्य, पादौ शिरश्चाभ्युक्ष्य, संहताभिस्तर्जनीमध्यमानामिकाभिर्जलेन मुखे स्पृष्ट्वा, अङ्गुष्ठतर्जनीभ्यां नासिकापुटवयं स्पृष्ट्वा, अङ्गष्ठानामिकाभ्यां चक्षुषी, पुनस्ताभ्यां श्रोचे, कनिष्ठाङ्गष्ठाभ्यां नाभि, पाणितलेन हृदयं, साङ्गलिभिः शिरः, अङ्गल्याहुमूले संस्पृशेत् । प्रत्यक्षं जलेन स्पर्शः कार्य: । उक्तरीत्या गण्डूषाचा यज्ञोपवीती बिराचामेत । केवलमूत्रोत्सर्ग हिराचामेत् । गच्छन्, तिष्ठन, हसन्, दिशो विलोकयन्, न प्रणतो, न पादौ प्रसाय, नाङ्गलिभिरुद्धृत्य, नातीर्थन, न शब्दं कुर्वन्, नापूनमदृष्टञ्च, न जानुभ्यां हस्तौ बाह्यौ कृत्वा, नैकवस्त्रो, न प्राचीनावीती, न निवीती, नोष्णजलेन फेनजलेन वा, नोपानी धृत्वा, न वस्त्रेण
For Private And Personal