________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१९९
गोभिलीयगृह्मकर्मप्रकाशिका। मन्त्रस्य प्रजापति षिविराट्छन्द आपो देवता: पाद्यप्रेक्षणे विनियोगः । यतो देवीः प्रतिपश्याम्यापस्ततो मा रातिरागच्छतु ॥ ततः पूजकदत्तं पाद्यं गृहीत्वा पूज्यो जलेन स्वकीयसव्यं पादं सव्यं पादमवनेनिज इतिमन्त्रेण प्रक्षालयति । अनयोर्मन्त्रयोः प्रजापतिषिर्निगदो ऽईणीयश्रीवता सव्य. दक्षिणपादप्रक्षालने विनियोगः । सव्यं पादमवनेनिजे ऽस्मिन् राष्ट्रे श्रियं दधे । दक्षिणं पादमवनेनिजे ऽस्मिन् राष्ट्र श्रियमावेशयामि ॥ ततः शेषेणेोदकेन पूर्वमन्यमित्यनेन मन्त्रेणोभी पादौ पूर्ववत्प्रक्षालयति । अस्य मन्त्रस्य प्रजापतिऋषिर्निगदो ऽईणीयश्रीवता पादहयप्रक्षालने विनियोगः । पूर्वमन्यमपरमन्यमुभी पादाववनेनिजे । राष्ट्रस्यया अभयस्यावरुयै ॥ ततः पूजको ऽयंपात्रमादायार्थ्यमयंमध्यं प्रतिगृह्यतामित्यता तेनैव पाणायमञ्जलावाचरेत् । तदर्य्यमञ्जलिना ऽन्नस्य राष्ट्रिरितिमन्त्रण प्रतिगृह्णीयात । अस्य मन्त्रस्य प्रजापतिषिर्यजुर घ्य देवता ऽयंप्रतिग्रहणे विनियोगः । अन्नस्य राष्ट्रिरसि राष्ट्रिस्ते भूयासम् ॥ ततो ऽर्चक आचमनीयमाचमनीयमाचमनीयं प्रतिगृह्यतामिति दद्यात् । तद्दत्तमुदकम→ आचामेत् यशोऽसीति सकृन्मन्त्रेण विस्तूष्णीम् । अस्य मन्त्रस्य प्रजापतिषियजुराचमनीयं देवता ऽऽचमने विनियोगः । यशोऽसि यशो मयि धेहि ॥ ततः कांस्यपात्रे दधि मधु पृतं संसृज्य, संस्थाप्य, वर्षीयसा कांस्यपात्रेणापिधाय | दद्यात् । ततोऽर्चकः पूर्वोक्तमधुपर्कपाचं गृहीत्वा मधुपी
For Private And Personal