________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२००
गोभिलीयकर्मप्रकाशिका |
मधुपर्क मधुपर्कः प्रतियतामिति वदेत् । ततो ऽच्चा यशसा
सत्येताव मन्त्रेण प्रतिगृह्णीयात् । अस्य मन्त्रस्य प्रजापति ऋषिर्यजुर्मधुपका देवता मधुपर्कप्रनिग्रहणे विनियोगः । यशसा यशेोऽसि ॥ ततो दस्ते दत्तं मधुपर्कं यशसा भत्तो ऽसीतिमन्त्रेण त्रिः पिबेत्तूष्णीं चतुर्थम् । चस्तेनैव मधुपर्कभक्षणमिति शिष्टाः । अस्य मन्त्रस्य प्रजापति ऋषिर्यजुर्मधुपर्के देवता मधुपर्कभक्षणे विनियोगः । यशसा भक्षो ऽसि ममा भक्षो ऽसि श्रीर्भक्षोऽसि श्रियं मयि धेहि ॥ ततो ऽच्च हिराचामति । मधुपर्कशेषं ब्राह्मणाय दद्यात् । तत श्रचान्तोदकाया च्यीय वस्त्रादिकं दद्यात् । ततो गौर्गैर्गैरिति नापिता ब्रूयात् । ततो ऽच्च मुञ्च गां वरुणपाशादितिमन्त्रं ब्रूयात् । अस्य मन्त्रस्य प्रजापतिऋषि हतीछन्दो गौईवता गोमोक्षणे विनियोगः । मुञ्च गां वरुणपाशाद्दिषन्तं मेऽभिधेहि । तं जह्यमुष्य चाभयोरुत्सृज गामत्तु तृणानि पिबतूदकम् ॥ ततो मा रुद्राणामित्यनेन मन्त्रेण गामनुमन्त्रयते । अस्य मन्त्रस्य प्रजापतिऋषिस्त्रिष्टुपञ्छन्दो गौद्देवता गावानुमन्त्रणे विनियोगः । माता रुद्राणां दुहिता वसूनां स्वसा ssदित्यानाममृतस्य नाभिः । प्रनुवाच चिकितुषे जनाय मा गामनागामदितिं वधिष्ट ॥ एवं मधुपर्केपाचार्य ऋत्विजः, समावर्त्तनानन्तरं स्नातको, राजा, विवाहे वरः, प्रियो ऽतिथिश्वेत्येते षट् पूज्याः । तत्तच्छाखोक्तविधिना मधुपर्कं दद्यात् ॥ इति मधुपर्कप्रयोग: ॥
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal