________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१९८
गोभिलीयगृह्मकर्मप्रकाशिका । ऽहणीय इदमहमिमामितिमन्त्रं प्रतितिष्ठमानो जपेत । यस्मिन्प्रदेशे पूज्यस्य पूजनं कर्तुमिच्छन् पूजक उपस्थितो भवेत्तत्र पज्यो जपति । अथवा, यजमानो यस्मिन् काले ऽहणं कर्तमारभते तदेदमहमितिमन्त्र जपेत । अस्य मन्त्रस्य प्रजापतिषिर्यजुरहणीयो देवता जपे विनियोगः । इदमह. मिमां पद्यां विराजमन्नाद्यायाधितिष्ठामि ॥ ततो यजमानो दर्भमयं विष्टरं विष्टरद्दयं वा पज्याय दद्यात । तत्प्रयोगो विष्टरो विष्टरो विष्टरः प्रतिगृह्यताम । एवं पाद्याथ्याचमनीयमधुपर्कान्प्रत्येकं चिस्त्रिनिवेद्य दद्यात् । विष्टर हयपक्षे विष्टरौ विष्टरौ विष्टरौ प्रतिगृह्येताम् । पादप्रक्षालनार्थमुदकं पाद्यम । दध्यक्षतपुष्यसंयुतं जलमय॑म् । आचमनार्थमुदकमाचमनीयम् । दधिष्तसंयुक्तं मधु मधुपर्कः । ततः पूजकदत्तं विष्टरमचः प्रतिटनाति । विष्टरं या ओषधीरितिमन्त्रेणोदगग्रमास्तीर्थोपविशेत । विष्टरहये दत्ते एक पूर्व मन्त्रेणास्तीर्य द्वितीयं विष्टरमुत्तरमन्त्रेण पादयोरधस्तात्कुर्यात् । अनयोः प्रजापतिषिरनुष्ट पछन्द ओषधयो देवताः पूर्वविष्टरासादने, उत्तरस्य पादयोरधस्तादास्तरणे विनियोगः । या ओषधीस्मोमराज्ञीर्बह्वीः शतविचक्षणा: । ता मह्यमस्मिन्नासन्ने ऽच्छिद्राः शर्म यच्छत ॥ इतिपूर्वमन्त्रः । या ओषधीस्सोमराज्ञीविष्ठिता: पृथिवीमनु । ता मह्यमस्मिन् पादयोरच्छिद्राः शर्म यच्छत ॥ इत्यत्तरमन्त्रः । ततो ऽर्चकः पाद्यं पाद्यं पाद्यं प्रतिगृह्यतामिति ददाति, तदा ऽच: यतो देवीरितिमन्त्रेण पाद्यं प्रेक्षते । अस्य
For Private And Personal