SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir afrate कर्मप्रकाशिका | પ एवं मा श्रीधावार: समवयन्तु सर्वतः स्वाहा ॥ चयादिभ्य इदं न मम । यथा समुद्रः स्रवन्तीः समवयन्ति दिशो दिशः । बवं मा सखायेो ब्रह्मचारिणः समवयन्तु दिशो दिशः स्वाचा ॥ चयादिभ्य इदं न मम । इत्थमत्तततण्डुलैश्चतस्र आता तन्त्रशेषं परिसमाप्य तूष्णों कतिपयपदानि प्राच्यां गत्वोर्ध्वं पश्यन् वसुवन एधीत्यनेन मन्त्रेण चिरभ्यस्तेन देवजनेभ्य इति प्रकृताक्षततण्डुलानज्वलिनेोर्ध्वं क्षिपेत् । अस्य मन्त्रस्य प्रजापतिर्ऋषिर्यजुद्देवजना देवता ऽक्षततण्डुलानाम्मूर्द्धप्रक्षेपणे विनियोगः । वसुवन एधि वसुवन एधि वसुवन एधि । देवजनेभ्यः ॥ ततः पुनरक्षतनरूडुलान् गृहीत्वा ऽधस्तात्पश्यन् तिर्यगितरजनेभ्य इत्यञ्जलिना प्रक्षिपेत् । ततो ऽचापि वसुवन एधि वसुवन एधि वसुवन एधि । इतरजनेभ्य इति प्रयोक्तव्य: । “ तथेतर जनेभ्य" इतिसूत्रे तथाशब्दश्रवणात् । ततो बलिमनवलेोकयन् प्रकृताग्निसमीपमागत्य होमबल्यवशिष्टान क्षतान् भ्रातृपुचशिष्यादिभिर्मिचैश्च सह भक्षयेत ततो बामदेव्यगानम् । अस्य कर्मणः स्वस्त्ययनफलम् । इति स्वस्त्ययनकर्मप्रयोगः ॥ अथ प्रसादकर कर्मेोच्यते ॥ अथ पुण्ये दिवसे प्रातर्नित्यकर्मन् प्रिहोमविधिनाऽग्निं प्रतिष्ठाप्य वशङ्गमावितिमन्त्रेण व्रीहिहोमः, शङ्खश्चेतिमन्त्रेण यवामश्च कर्त्तव्यः । यस्य कस्यचित्पुरुषस्य स्त्रियो वा सकाशाद्रव्यप्राप्तिमिच्छति तस्य नाम मन्त्रेऽसावित्यस्य स्थाने प्रथमान्तत्वेन प्रयोक्तव्यम् । For Private And Personal
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy