________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१८६
गोभिलीयगृह्मकर्मप्रकाशिका । फलदानां च वृक्षाणां वेदने जप्यमृक्शतम"। किञ्च “एताश्चैव देवता अभियजेत" इति सब चकारात्तत्तदृक्षदेवतायागो जपश्च कर्तव्यः । “मध्ये ऽग्निमपसमाधाय कृष्णया गवा यजेत, अजेन वा श्वेतेन सपायसाभ्यां पायसेन वा” ॥ ततो गृहनिमाणानन्तरं गृहमध्ये ऽग्निं प्रतिष्ठाप्य गोपयसि कतौदनेन सह श्वेतेनाजेन यजेत । पशोरसम्भवे पायसेन चरुणा वा यजेत । तस्यैवं प्रयोगः । पुण्ये नक्षत्रे पुण्यतिथौ वास्तोष्यति. यज्ञाझं नान्दीमुखश्राद्धं कृत्वा, ब्राह्मणाननुज्ञाप्य, गणेशपुजन च कृत्वा, वास्तोष्यतियचं करिष्ये इति सकल्याग्निमुपसमा. धाय मध्याष्टकोतप्रकारेणाजमुपस्थाप्योपस्थितहोमादिवपाहोमान्तं कुर्यात्। पशुस्थानीयपायसचरुमध्याष्टकायां पशुस्थानोक्तस्थालीपाकवत्कर्त्तव्यः । तत्र प्रोक्षणे वास्तोष्यतये त्वा जुष्टं प्रोक्षामि । निर्वापे वास्तोष्यतये त्वा जुष्टं निर्वपामीति विशेषः । वपाहोमे जातवेदो वपया गच्छ देवानिति मन्त्रः पूर्वमुक्तो देवदैवत्यत्वात् । चरुहोमे वास्तोष्यतये स्वाहेति मन्त्रः । सर्वत्र वास्तोष्यतय इदं न मम । अङ्गावदाने मध्याष्टकायां हादशाक्तान्यत्र चतुर्दशाङ्गानीति विशेषः । वपाहामानन्तरं मध्याष्टकावत्यायसचळं मांसचरं च अपयित्वा लक्षशाखायुक्तप्रस्तरे प्रासादयेत् । ततो नवे काष्ठे मांसावदानानि संस्थाप्याणुशश्चित्वैकस्मिन् कांस्यपात्रे संस्थाप्य तत्र वसाज्यपायसान्यवसिच्य सर्व मिश्रीकरोति । ततः सचि सकृदपस्तीर्य च्यार्षयश्चेद्यजमानो वसाज्यपायसमिश्रीकृतमां
For Private And Personal